SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ५० न कुरूणां - क्षत्रियाणामुपयुक्त:- उपयोगी ? अपि तु कुरूणामुपयोग्येव । किम्बहुना -किम्बहूक्त्या ? दमयन्ती - कथा - चम्पू: सदाहंसाकुलं बिभ्रन्मानसं प्रचलज्जलम् । भूभृन्नाथोऽपि नो याति यस्य साम्यं हिमाचल: १ अपि च सदेति । हिमाचल:- हिमाद्रिर्यस्य नलस्य साम्यं - सादृश्यं नो याति । किम्भूत: ? 'भूभृन्नाथोपि' भूभृत:- गिरयस्तेषां नाथोऽपि स्वाम्यपि यथा नल: भूभृतां नृपाणां नाथस्तथाऽयमपि भूभृन्नाथः परं तथाविधोऽपि तत्तुल्यतां नाप्नोतीत्यर्थः । कथं ? यतः स नलः सदाऽहं सखेदं-साकुलं व्यग्रं प्रचलत् - कम्पमानं जडं - व्यामूढं मानसं चेतो न बिभर्ति । अयं चेदृग्विधं मानसं बिभ्रदस्तीति, अतः क्व तुल्यमासादयेदिति । सिद्धान्ते तु, मानसं - सरः सदे ति भिन्नम् । किम्विधम् ? हंसैराकुलं - व्याप्तं, तथा प्रचलत् - वायुना कम्पमानं जलं यत्र तत्प्रचलज्जलम् । आकुलशब्दो भावप्रधानो यथा - " तिष्ठन्ति च निराकुलौ " [२७९] इति माघे ||३६|| अपि चेति । पुनर्नलस्य मेरुरपि साम्यं नाप्नोतीत्याह Jain Education International ॥३६॥ नक्षत्रभूः क्षत्रकुलप्रसूतेर्युक्तो नभोगैः खलु भोगभाजः । सुजातरूपोऽपि न याति यस्य समानतां काञ्चन काञ्चनाद्रिः ||३७|| नक्षत्रेति । यस्य नलस्य काञ्चनाद्रिः - मेरुः काञ्चन - कञ्चिदपि समानतां - तुलनां नो याति । किम्भूतः ? सुजातरूपोऽपि सुष्ठु जातरूपं - सुवर्णं यत्र तथाविधोऽपि । यथा नल: सुष्ठु जातं-उत्पन्नं रूपं - सौन्दर्यं यस्य स तथाविधस्तथाऽयमपि सुजातरूपः परं साम्यं नाप्नोति । कथमित्याह - यतो नाऽयं क्षत्राद्भवति स्म, तथा भोगैर्न युक्तः । किम्भूतस्य ? यस्य क्षत्रकुले प्रसूतिः - जन्म यस्य स तस्य, तथा खलु-निश्चितं भोगान्शब्दादीन् भजतीति भोगभाक् तस्य । अतः साम्ये निषेधः । सिद्धान्ते तु, नक्षत्राणां भू:- स्थानं, तथा नभसि गच्छन्ति ये ते नभोगाः - देवास्तैर्युक्तः । किमः सर्वविभक्त्यन्तान्वितचनौ प्रयोज्यौ । भूशब्दः स्थानमात्रवचन:, यथा “उटजाङ्गभूमिषु” [ ] इत्यत्र भूमिशब्द इति । इन्द्रवंशा ||३७|| For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy