SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ प्रथम उच्छ्वासः सत्कोटिगुणं दानम्, दानवकुलमिव दृष्टवृषपर्वोत्सवं राज्यम्, राजीवमिव भ्रमरहितं सर्वदा हृदयम् । यश्च युक्तः । ४९ परमहेलाभिरतोऽप्यपारदारिकः १ । शान्तनुतनयोऽपि न कुरूप किम्बहुना ! तथा यस्य च नलस्य न क्वचित् - कुत्रापि वचनक्रमः - वाक्परिपाटी अपार्थ:अर्थादपेतः किन्तु सार्थः । क इव ? युधिष्ठिर इव, सोऽपि न क्वचिदपार्थो भवति, पृथ्व्या अपत्यं पार्थः-अर्जुनस्तद् रहितो न भवति, सर्वत्राप्यर्जुनसहित एव स्यात् तथा यस्य मानसं-चित्तं अपापं-निः पापं । किमिव ? मरुमण्डलमिव, तदपि अपापम्, अपेता आपो यस्मात् तत् अपापं, "ऋक्पूरब्धूः पथामनक्षे" [पा० सू० ५|४|७४] इति बहुव्रीहौ अप्रत्ययः समासान्तः । तथा यस्य कर्म - कार्यं सुष्ठु उपकारेण सारं प्रधानं सूपकारसारं । किमिव ? महानसमिव-पाकस्थानमिव, तदपि सूपकारै:- सूदैः सारं रुचिरम् । तथा यस्य दानं सत्पात्रवितरणात् शोभनं, तथा कोटिगुणं - कोटिसंख्या' फलकरणात् । किमिव ? कार्मुकमिव । तदपि सन्तौ प्रकृष्टौ कोटिगुणौ - अटनिज्ये यत्र तत् तथाविधं भवति तथा यस्य राज्यं दृष्टवृषपर्वोत्सवं वृष:- धर्मः पर्व :- पौर्णमास्यादिः उत्सव :- पुत्रजन्मविवाहादि: ते दृष्टा:-अनुष्ठिता यत्र तत् तथाविधम् । किमिव ? दानवकुलमिव - दैत्यकुलमिव, तदपि दृष्टो वृषपर्वनाम्नः दैत्यस्य उत्सव : - महो यत्र तत्तथारूपं भवति । तथा यस्य हृदयं सर्वदा भ्रमरहितं भ्रमः- संशयस्तेन रहितं सर्वशास्त्रेषु प्रगल्भमतित्वात् । किमिव ? राजीवमिवकमलमिव, तदपि भ्रमरेभ्यो हितं सुखकारि भवति । तथा यश्च-नलः ‘परमहेलाभिरतोऽपि परमा हेला - शृङ्गारचेष्टा तस्यामभिरतःआसक्तः । यद्वा, परः- उत्कृष्टो महः - उत्सवो यस्यां सा परमहा, ईदृग्विधा या इलाभूमिस्तस्यां रतः, राजन्वती हि मही सदुत्सवा भवति । तथा अपारदारिकः-न परस्त्रीलम्पट:, अपिः-विरोधे, यः परेषां याः महेलाः स्त्रियस्तासु अभिरत:-आसक्त:, स कथं अपारदारिकः ? किन्तु पारदारिक एव भवति, परिहारस्तूत एव । परदारान् गच्छतीति पारदारिकः, पश्चान्नञ्समासः “गच्छतौ परदारेभ्यः " [ ] इति ठक् । तथा 'शान्तनुतनयोऽपि' नुतः-स्तुतो नय: - नीतिर्यस्य स नुतनयः, शान्तश्चासौ नुतनयश्च शान्तनुतनयः, तथा न कुत्सितरूपयुक्तः, अपि:- विरोधे, यः शान्तनुनृपस्य तनयो - गाङ्गेयो भवति स कथं १. संख्य अनू० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy