SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ दमयन्ती-कथा-चम्पू: धन्यास्ते दिवसाः स येषु समभूद् भूपालचूडामणिर्लोकालोकगिरीन्द्रमुद्रितमहीविश्रान्तकीर्तिनलः । लोकास्तेऽपि चिरन्तनाः सुकृतिनस्तद्वक्त्रपङ्केरुहे, यैर्विस्फारितनेत्रपत्रपुटकैर्लावण्यमास्वादितम् ॥३४॥ धन्या इति । ते दिवसा धन्याः-प्रशस्ताः, येषु दिवसेषु व्यावर्णिताद्भुतैश्वर्यो नलः समभूत्-जातः । किम्भूतः ? भूपालेषु चूडामणिरिव यः स तथा, सर्वनृपतिप्रधान इत्यर्थः । पुनः किम्भूतः ? लोकालोकगिरीन्द्रेण मुद्रिता-लाञ्छिता या मही-भूस्तस्यां विश्रान्ताअवस्थिता कीर्तिर्यस्य सः । ते चिरन्तना:-पूर्वकालीना लोका अपि सुकृतिनः-पुण्यवन्तः, यैः-लोकैस्तस्य-नलस्य वक्त्रपङ्केरुहे-वदनपङ्कजे विस्फारितानि-अद्भुतावलोकनाद् विकासितानि यानि नेत्राणि तान्येव पत्रपुटकास्तैर्लावण्यं-सौन्दर्यं आस्वादितं-पीतम्, लोचनैस्तद्रूपं दृष्टमित्यर्थः । पर्णानां नावाकृत्या न्यसनं पत्रपुटकः ॥३४॥ अपि च ये कुन्दद्युतयः समस्तभुवनैः कर्णावतंसीकृता, यैः सर्वत्रशलाकयेव लिखितैर्दिग्भित्तयश्चित्रिताः । यैर्वक्तुं हदि कल्पितैरपि वयं हर्षेण रोमाञ्चितास्तेषां पार्थिवपुङ्गवः स महतामेको गुणानां निधिः ॥३५॥ य इति । तेषां महतां गुणानां स पार्थिवपुङ्गवः-नृपश्रेष्ठ एक:-अद्वितीयो निधिःनिधानम् । तेषामिति केषाम् ? ये गुणाः समस्तभुवनैः-त्रिभुवनलोकैः कर्णयोरवतंसीकृता:-कर्णपूरीकृताः श्रुता इत्यर्थः । किम्भूताः ? कुन्दवत्-पुष्पविशेषवत् द्युतिर्येषां ते कुन्दद्युतयः, यत एव कुन्दद्युतयस्तत एव कर्णावतंसीकरणमिति छायार्थः । तथा यैर्गुणैः सर्वत्र दिग्भित्तयः-दिक्कुड्यानि चित्रिता:-विलिखिताः, दिक्प्रान्तेऽपि तद्गुणाः श्रूयन्त इत्यर्थः । उत्प्रेक्ष्यते, गुणैः, कैरिव ? शलाकया लिखितैरिव, अन्यदपि लेखनाच्चित्रितं भवति । तथा यैर्गुणैर्वक्तुं हृदि कल्पितैरपि-हृदये न्यस्तैरपि वयं हर्षेण रोमाञ्चिताःपुलकिताः ॥३५॥ यस्य च युधिष्ठिर इव' न क्वचिदपार्थो वचनक मः, मरुमण्डलमिवापापं मानसम्, महानसमिव सूपकारसारं कर्म, कार्मुकमिव Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy