SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ प्रथम उछ्वासः ५३ च-तारुण्येन, शीलेन च-सदाचारेण, गुणैश्च-औदार्यादिभिः समान:-तुल्यः । यादृशा नलस्य विद्यादयस्तादृशाः श्रुतशीलस्याप्यासन् । तथा विश्वम्भरायाः-भुवो भारं-चिन्तारूपवीवधं सहत इति विश्वम्भराभारसह: । ईदृग्विधः सहायः-सहचरः । यथा नलो भूभारं धत्ते तथाऽसावपि ॥३८॥ अपि च अपि चेति पुनर्विरोधद्वारेण मन्त्रिणं व्यावर्णयन्नाहब्रह्मण्योऽपि ब्रह्मवित्तापहारी स्त्रीयुक्तोऽपि प्रायशो विप्रयुक्तः । सद्वेषोऽपि द्वेषनिर्मुक्तचितः१, को वा तादृग् दृश्यते श्रूयते वारे ॥३९॥ ब्रह्मेति । ब्रह्मणे-ब्राह्मणाय हितो ब्रह्मण्यः, "प्राण्यंगब्रह्मरथयवखलतिलमाषवृषाद् यः" [सि० हे० सू० ७.१.३७] यदनेकार्थ:-ब्रह्मण्या ब्रह्मणो हिते । शनैश्चरे" [३।५३३] इति । ब्रह्माणं वेदं वेत्ति ब्रह्मवित्, तथा तापं-सन्तापं हरतीत्येवंशीलस्तापहारी । तथा स्त्रिया युक्तः, तथा प्रायश:-बाहुल्येन विप्रैः-द्विजैर्युक्तः । तथा सत्-शोभनो वेष:आकल्पो यस्य स सद्वेषः, तथा द्वेषात्-क्रोधान्निर्मुक्तं-दोषरहितं चित्तं यस्य स द्वेषनिर्मुक्तचित्तः । अपिः-विरोधे । यो ब्रह्मण्यो भवति स ब्रह्मवित्तापहारी-ब्रह्मस्वापहर्ता कथं स्यात् ? तथा यः स्त्रीयुक्तः स कथं विप्रयुक्त:-वियुक्तः ? तथा यः सद्वेषः-द्वेषयुक्तः स कथं द्वेषनिर्मुक्तचित्तः ? इति, तत्परिहारस्तूक्तमेव। तादृक् श्रुतशीलसम: अन्य: को वा दृश्यतेवीक्ष्यते' श्रूयते वा ? न कोऽपि, स एव प्रकृष्टगुणयुक्त इत्यर्थः । शालिनी ॥३९॥ अथ स पार्थिवरेस्तस्मिन्नमात्ये परिजनपरिवढे प्रौढप्रेमणि५ ४निगूढमन्त्रे मन्त्रिणि तृणीकृतस्त्रैणविषयरसे सौराज्यरागजनने जननीयमाने जनस्य, सर्वोपधाशुद्धबुद्धौ निधाय राज्यप्राज्यचिन्ताभारमभिनवयौवनारम्भरमणीये रम्यरमणीयजननयनहृदयप्रिये प्रियङ्गुभासि जितमदनमहस्य-. पहसितसुरासुरसौभाग्ययशसि विस्मापितसमस्तजनमहसि लसल्लावण्यपुञ्ज पराजितसमुद्राम्भसि१० क्रान्तिकटाक्षितचन्द्रमसि वयसि वर्तमानो मानिनीमानसर्वस्व:११ स्वयमनवरतं१२ सकलसंसारसुखसन्दोहमन्वभूत् । तथाहि १. वीक्ष्यते नास्ति अनू० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy