SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ दमयन्ती-कथा-चम्पू: अभिलषितार्थपूरणलक्षणो यस्मिन् सः । किम्भूता प्रिया ? काम्यत इति कामं-अभिलषणीयं रूपं धरन्तीत्येवंशीला । यद्वा, काम-अतिशयेन रूपधारिणी । तथा यस्याः-कान्तायाः सकलजनमनोहारिविशेषकं-तिलकम् । तथा यस्याः पृथुः-विस्तीर्ण ललाटमण्डलं अलिकम् । तथा यस्या रमण्याः अभिलषणीया कान्तिः-कृष्णस्निग्धच्छाया येषां ते, तथाविधाः कुन्तला:-केशाः । तथा यस्याः नासिकायां भवो नासिक्यः भागः-प्रदेशः श्लाघनीयः-वर्णनीयः । तथा यस्या:-प्रियाया ईदृग्विधो मध्यदेशः-उदरम् । कीदृक् ? बहुलवल्य:-उदररेखायत्र स बहुलवलीक: । पुनः कीदृक् ? सह रोमालिकालङ्कारेणरोमपंक्तिलक्षणमण्डनेन वर्तत इति सरोमालिकालङ्कारश्च । तथा यस्याः-प्रियाया ईदृशः काञ्चीप्रदेश:-श्रोणितटं, कीदृक् ? प्रकटित:-दशित: कामकोटे:-अनङ्गोत्कर्षस्य विलासो येन सः प्रकटितकामकोटिविलासः । किम्बहुना तस्याः भूमेः कान्तायाश्च किं बहु व्यावर्ण्यते ! सर्वसुखकारणत्वात् तदेव वक्ति यस्या इति । यस्याः-पृथिव्या अने-अङ्गाख्यदेशे एव रङ्गे-नर्तनस्थाने निरुपमान:शैत्यमान्द्यसौरभाख्यगुणत्रययुक्तत्वेन प्रधानो यो वायुस्तस्मिन् निरुपमवायौ सति वनश्रीःकाननलक्ष्मी रमणीयतया-चारुतया नृत्यतीव-क्रीडतीव, अत्र वाततरलनमेव नर्तनम् । किम्भूता वनश्री: ? कृष्णा-पिप्पली अगुरुचन्दनौ-वंशिकमलयजौ तेषामामोदःपरिमलस्तथा बहूनां लकुचानां आभोग:-विस्तारस्तौ भूषणं यस्याः सा । पक्षे, यस्याः प्रियाया अङ्ग-शरीरमेव रङ्गः-नृत्यभूमिस्तस्मिन् निरुपमा नवा-प्रत्यग्रा यौवन श्री:तारुण्यलक्ष्मी रमणीयतया नृत्यतीव, यूनः प्रेक्ष्यकटाक्षादिविलासकरणात् । किम्भूता यौवनश्रीः ? चर्चावशात् कृष्णागुरुचन्दनयो:-कालागुरुहरिचन्दनयोरामोदेन सुरभिणा-गन्धेन बहुल:-व्याप्त: कुचाभोग एव-स्तनविस्तार एव भूषणं-मण्डनं यस्याः सा तथाविधा । किञ्चान्यत्-अस्य किञ्चिदन्यदप्यद्भुतं वर्णनीयमस्ति । तथाहि कोऽन्यपरिच्छेद्यमहिमा, तथा नवः-पूर्वविलक्षणो अवतार:-जन्म यस्य स तथाभूतः । यद्वा, “णु स्तुतौ" [पा० धा० १११०] इत्यस्य नवा:-स्तुतयोऽवतार्यन्तेऽस्मिन्निति नवावतारः-स्तवास्पदं, सर्वोर्वीपतिभ्योऽन्योऽसाधारण एव स-नलो राजा पुरुषेषु उत्तमः पुरुषोत्तमः । तथा अमः-रोगोऽस्यास्तीति अमी, नामी अनमी-नीरोगः । यदि वा नमयति शत्रूनवश्यमिति कृत्वानमी, प्रतापाक्रान्तारिचक्र इत्यर्थः । पुनः किम्भूतः ? न रूपेणकुत्सिता कृत्या दूषित:-कलङ्कितः । तथा अङ्गीकृतो विश्वविश्वम्भरायाः-समस्तपृथिव्या १. धरति अनू० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy