SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ४५ प्रथम उवासः उत्कृष्टो विबुधानां-पण्डितानां पतिः । तथा अन्यो हि धर्मराजः-यम: दण्ड करे यस्य स दण्डकर:-दण्डपाणिः, नलस्तु न दण्डः-वधादिः करश्च-राजदेयोंऽशो यस्मादित्यदण्डकरः । तथा धर्मप्रधानो राजा धर्मराजः धर्मविजयित्वात् । त्रिविधो हि राजा-धर्मविजयी, लोभविजयी, असुरविजयी चेति । यो हि सेवया दण्डमात्रेण च तुष्यति स धर्मविजयी । यो हि परेषां श्रियं भुवं च गृह्णाति स लोभविजयी । यः श्रियं भुवं प्राणांश्च गृह्णाति सोऽसुरविजयीति विशेषः । तथा अन्यो हि प्रचेता-वरुणः सह जघन्यया-पश्चिमया वर्तत इति सजघन्यः, नलस्तु अजघन्यः-अकुत्सितः, तथा प्रकृष्टचेता-उदारमानसः । “जघन्यं चरमे शिश्ने जघन्यं गर्हितेऽन्यवत्" [विश्व० तृ० यान्त० ८२] । तथा अन्यो हि धनदःकुबेरः सह उत्तरया दिशा वर्तत इति सोत्तरः, नलस्तु न विद्यते उत्तरः-उत्कृष्टो यस्मादित्यनुत्तरः, तथा धनं ददातीति धनदः । अपरं येन च-नलेन सातेन-सुखेन पृथ्वी प्रिया च भुक्ता-निविष्टा तत्फलास्वादनेन अनुभूतेत्यर्थः । किम्भूतेन येन ? प्रचण्डदोर्दण्ड एव-दीर्घभुजप्रकाण्डमेव मण्डपमण्डलीशोभनमण्डपस्तस्यां विश्रान्ता-श्रान्तिमपनीतवती विजयश्री:-जयलक्ष्मीर्यस्य सः, अन्यापि या श्रान्ता भवेत् सा मण्डपमण्डल्यां विश्राम्यतीति छायार्थः। मण्डलीशब्दस्तनुयष्ट्या - दिवच्छो भावाचकः। पुनः किम्भूतेन ? श्रवणोत्पलदलमिव-विशालत्वनीलत्वसाम्यात् कर्णोत्पलपत्रमिव आचरती श्रवणोत्पलदलायमाने, तथा मानिन्यां' मानं लुण्टतः-चोरयत इत्येवंशीले मानिनीमानलुण्टाके, ये दृष्ट्वा मानिन्या मानो गलतीत्यर्थः । ईदृग्विधे लोचने-नेत्रे यस्य स तेन । “जल्पभिक्षकुट्टलुण्टवृद्धः षाकन्" [पा० सू० ३।२।१५५] इति शीलार्थे लुण्ट: षाकन् । सातेनेति यदमरसिंह:-"शर्म सात सुखानि च" इति [अमर० १।४।२५] । किम्भूता पृथ्वी ? कामरूपा:-प्राग्ज्योतिषाख्यदेशस्तान् धरतीत्येवंशीला कामरूपधारिणी । तथा यस्याः-पृथ्व्या: सकलजनमनांसि हरतीत्येवंशीलं विशेषकं-देशविशेषः । तथा पृथुलं-विशालं लाटमण्डलं-देशविशेषः पृथुललाटमण्डलं । तथा यस्या भुवः कुन्तला:देशविशेषाः । किम्भूताः ? अभिलषणीया-स्पृहणीया जनानां कान्तिः-शोभा येषु ते । तथा यस्याः नासिक्यस्य-देशविशेषस्य भाग:-मध्यप्रदेश:२ श्लाघनीयः । तथा यस्य भूमेरीदृग्विधो मध्यदेश: । किम्भूतो ? बढ्यो लवल्य:-लताविशेषा यस्मिन् स बहुलवलीकः । "नवृतश्च" [पा० सू० ५।४।१५३] इति बहुव्रीहौ कप् । तथा सरसां मालिकाश्रेणि: सैव अलङ्कारः-मण्डनं यस्य सः । तथा यस्या भुव ईदृग्विधाः काञ्च्या:-देशविशेषस्य प्रदेशो विभागः । किम्भूतः ? प्रकटित:-प्रकाशितः कामकोटिनाम्न्या देव्या विलासः १. मानिन्या अनू० । २. मध्यादिप्रदेशः अनू० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy