SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ दमयन्ती-कथा-चम्पू: पुनर्नलं वर्णयितुकाम आह यश्च कोऽप्यन्यादृश एव लोकपालः । तथाहि-अपूर्वो विबुधपतिः, अदण्डकरो धर्मराजः१, अजघन्यः प्रचेता, अनुत्तरो धनदः । येन च प्रचण्डदोर्दण्डमण्डपमण्डलीविश्रान्तविजयश्रिया श्रवणोत्पलदलायमानमानिनीमानलुण्टाकलोचनेन पृथ्वी प्रिया च कामरूपधारिणी सा तेन मुक्ता । यस्याः सकलजनमनोहारिविशेषकम्, पृथुललाटमण्डलम्, अभिलषणीयकान्तयः कुन्तलाः, श्लाघनीयो नासिक्यभागः, बहुलवलीकः सरोमालिकालङ्कारश्च मध्यदेशः, प्रकटितकामकोटिविलासः काञ्चीप्रदेशः । किम्बहुना ! यस्याः कृष्णागुरु चन्दनामोदबहुलकुचाभोगभूषणा नृत्यतीवाङ्गरङ्गे रमणीयतया निरुपमा नवा यौवनश्रीः । किञ्चान्यत् । अन्य एव नवावतारः स कोऽपि पुरुषोत्तमो यो न मीनरूपदूषितः, नाङ्गीकृतविश्वविश्वम्भराभारोऽपि कूर्मीकृतात्मा, न वराहवपुषा क्लेशेन पृथ्वीं बभार, न च नरसिंहः समुच्छिन्न हिरण्यकशिपुः, न बलिराजबन्धनविधौ वामनो दैन्यमकरोत्, नाऽपि रामो लङ्गेश्वरश्रियमपाहरत्, नाऽपि बुद्धः कल्किकुलावतारी ! किम्बहुना ! यश्चेति ? यश्च-नलः कोऽपि अपूर्वो विस्मयहेतोर्लोक-जगत् पालयन्ति ये तेभ्योऽन्यादृश एव' लोकं-प्रजां पालयतीति लोकपालः । तथाहीत्यादिना स्वोक्तमेव द्रढयति । यतो विबुधानां-देवानां पतिः-इन्द्रः सपूर्वः-पूर्वदिग्युक्तत्वात्, नलस्तु अपूर्व: १. अन्यादृश एव-विसदृश एव अनू० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy