SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ प्रथम उच्छ्वासः पुनरनेका या ब्रह्माण्डकोट्यस्तासां सा घटना- निर्माणं तामभ्यर्थयमाना इव । अन्योऽपि स्वनिवास-भूमिसांकीर्ण्ये स्वस्वाम्यर्थं बहुभूम्यर्थं प्रार्थयमानस्तत्कर्णयोविज्ञप्तिं कुरुते, तथा गुणा अपि स्वनिवासस्थाननिर्मापणविज्ञप्तये ब्रह्मकर्णलग्ना: बहुब्रह्माण्डघटनां कारयन्तीवेत्यर्थः । स्वर्गिभिरपि तत्र तद्गुणा वर्ण्यन्त इति भावः । किम्भूता गुणा: ? इन्दुश्च कुन्दश्चपुष्पविशेषः कुमुदानि च - श्वेतकमलानि इन्दुकुन्दकुमुदानि तानीव उज्ज्वलसाम्यात्रे कान्तिः - शोभा येषां ते । तथा सकललोकानां कर्णयोः प्रियातिथय इव - वल्लभाभ्यागता इव ये ते तथा । यथा प्रियातिथय: सबहुमानं प्रवेश्यन्ते तथा यस्य गुणा अपि साभिलाषं श्रूयन्त इत्यर्थः । ४३ "1 तथा यस्मिंश्च जनितो जनानामानन्दो येन स तस्मिन् जनितजनानन्दे राजनि - नलनृपे मेदिनीं भुवं नन्दयति-समृद्धि कुर्वाणे सति गीतादिष्वेव जातिसङ्करादीनि आसन्, न प्रजासु । तथाहि—गीतेषु - गानेषु जातयः - नन्दयन्तीप्रभृतयोऽष्टादश तासु सङ्कराः- मिश्रप्रतीतयः, न प्रजासु जातयः - विप्राद्यास्तासां सङ्कराः - अनुचितसम्बन्धेन विप्लवाः । तथा तालेषु-चञ्चत्पुटादिषु नाना - अनेक स्वरविशेषविशिष्टा लयाः - द्रुतमध्यविलम्बितलक्षणास्तेषां भङ्गा:- विच्छित्तयः, न प्रजासु नाना - अनेकविधा आलया:-गृहास्तेषां भङ्गा:विनाशाः, अपराधाकरणात् । तथा नृत्तेषु विषमाणि कर्तुं दुःशकानि यानि करणानि - तलपुष्पपटादीनि अष्टोत्तरसंख्यानि तेषां प्रयोगाः - व्यापारा:, न प्रजासु । विषम एव विषमकः, “स्वार्थे कः । रणः- - युद्धं तस्य प्रयोगाः - प्रवृत्तयः, न केऽपि परस्परं युध्यन्त इत्यर्थः । तथा वाद्येषु - आतोद्येषु दण्डः - कोणो वादनोपकरणं करः-पाणिस्तयो प्रहारा:आघाता:, न प्रजासु दण्डः - वधादिः करः - राजदेयांशः ४ प्रहारः - घातनं पश्चाद् द्वन्द्वः दण्डकरप्रहारा: । तथा पुण्यकर्मणां - धर्मकर्त्तव्यानां ये आरम्भा:- उपक्रमास्तेषु पुण्यकर्मारम्भेषु प्रबन्धाः - सातत्यानि, नित्यं जनैः पुण्यकर्माण्येव क्रियन्त इत्यर्थः, न प्रजासु प्रकृष्टबन्धाः रज्वादिभिः । तथा शारिद्यूतेषु पाश: - बन्धस्तस्य प्रयोगाः, शारयो हि दायैर्बध्यन्ते । अक्षार्थस्तु पाशक एव प्रतीतः । न प्रजासु पाश: - बन्धनरज्जुस्तस्य प्रयोगाः, न कोऽपि रज्जुभि: कमपि बध्नातीत्यर्थः । तथा पुष्पितकेतकीषु हस्तः- केतकीगर्भस्तस्य छेदा:विपाटनानि, न प्रजासु हस्तयोश्छेदाः कल्पनानि चौर्याद्यकरणात् । तथा न्यग्रोधेषु - वटेषु पादस्य-मूलस्य कल्पना: - रचना:, न प्रजासु पादयोः - चरणयोः कल्पना:-कर्त्तनानि । तथा कञ्चुकमण्डनेषु-कञ्चुलिकाविभूषासु नेत्रं - वस्त्रविशेषस्तस्य विशेषेण - हृदयप्रमाणेन कर्त्तनानि - छेदनानि, न प्रजासु नेत्रयोः - नयनयोर्विकर्त्तनानि-खण्डनानि । T १. तामभ्यर्थयमाना इव - प्रार्थयमाना इव अनू० । २ स्वस्वामिनं अनू० । ३. औज्ज्वल्यसाम्यात् अनू० । ४. राजदेयोंश: अनू० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy