SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ दमयन्ती-कथा-चम्पू: चातुर्याचार्याणां-दक्षत्वशिक्षकाणां मध्ये अचरमः-प्रवरः, परमश्चातुर्यविनेतेत्यर्थः । तथा अपर्यन्तः-प्रचुरो यो भूभारस्तस्याधारे-धरणे स्तभ्भभूते-स्तम्भोपमे आयतत्त्वं साम्याद् ये भुजकाण्डे-बाहुदण्डे २ तयोः कीलिता-न्यस्ता शालभञ्जिकेवाचरन्ती शालभञ्जिकायमाना विजयश्री:-जयलक्ष्मीर्येन सः । अन्यापि पुत्रिकास्तम्भे कील्यत इति छायार्थः । पुनः किम्भूतः ? समस्तं जगदेव प्रासादः-सौधं तस्य शिरसि शेखरीभूत:-अवतंसतया जात: कान्त:-मनोज्ञ: कीतिरेव ध्वजः-पताका यस्य सः । यस्य कीर्तिर्जगति सर्वेषामप्युपरि विजृम्भितेत्यर्थः । जगतः प्रासादः कीर्तेश्च ध्वज उपमानम् । तथा राज्यलक्ष्मीरेव करेणुका:हस्तिनी तस्याः यच्चापलं-चाञ्चल्यं तस्य संयमने निवारणे शृङ्खलेव यः सः । यथा शृङ्खलया करेणुकाचापल्यं निषिध्यते तथा येन राज्यश्रीचापल्यं निषिद्धं । राज्यश्रीस्तं विहायान्यत्र न यातीति भावः । अथ नलीयगुणवर्णना चिकीर्षया आह यस्येन्दुकुन्दकुमुदकान्तयः सकललोककर्णप्रियातिथयो गुणाः सततमेकब्रह्माण्डसम्पुटसङ्कीर्णनिवासव्यसनविषादिनः पुनरनेकब्रह्माण्डकोटिघटनामभ्यर्थयमाना' इव भगवतो विश्वसृजः कमलसम्भवस्य कर्णलग्नाः२ स्वर्लोकमधिवसन्ति स्म । यस्मिंश्च राजनि जनितजनानन्दे नन्दयति मेदिनीम्, गीतेषु जातिसङ्कराः, तालेषु नानालयभङ्गाः, नृत्येषु विषमकरणप्रयोगाः, वाद्येषु दण्डकरप्रहाराः, पुण्यकर्मारम्भेषु प्रबन्धाः, शारिद्यूतेषु पाशप्रयोगाः, पुष्पितकेतकीषु हस्तच्छेदाः, न्यग्रोधेषु५ पादकल्पनाः, कञ्चुकमण्डनेषु नेत्रविकर्तनानि६, ७आसन् । न प्रजासु । यस्येति । यस्य-नलस्य: गुणा:-शौर्यौदार्यधैर्यादयो भगवतः-ऐश्वर्ययुक्तस्य विश्वं सृजतीति विश्वसृट् तस्य विश्वसृजः कमलसम्भवस्य-ब्रह्मणः कर्णलग्नाः-विज्ञापनार्थं निकटीभूताः स्वर्लोकमधिवसन्ति स्म-निवासंचकुः । “उपान्वध्वावसः" [पा० सू० १।४।४८] इति वसतेराधारः कर्मसंज्ञः स्यात् । किमिति ? ते तत्र जग्मुरित्यत आह-सततंनिरन्तरं एकस्मिन्नेव ब्रह्माण्डसम्पुटे सङ्कीर्णः-आकुलो यो निवासः-अवस्थानं स एव व्यसनं-विपत्तिस्तेन विषीदन्तीत्येवंशीलाः, प्राचुर्यादेकस्मिन् ब्रह्माण्डे अमान्त इत्यर्थः । १. आयतत्वपीनत्वसाम्याद् अनू० । २. बाहुदण्डौ अनू० । ३. इत्याह अनू० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy