________________
प्रथम उवासः च कीहक् ? परीक्षितेरभिमन्योर्नृपस्य तनयः-सुतः परीक्षितनयः । तथा 'परशुभाषितः' परास्मिन्-उत्कृष्टे शुभे-कल्याणे आसित:-स्थितः । यद्वा, परेषां-जनानां शुभाय आसितः । क इव ? परशुराम इव । स च कीदृक् ? परशुना-कुठारेण भासितः-दीप्तः । पुनः किम्भूतो नल: ? अलघुक:-गौरवार्हस्तथा दण्डस्य-वधस्य परिक्लेशार्थलक्षणस्य भङ्गेन-मुक्त्या रञ्जिताः-आवर्जिताः, प्रमोदिता जना एव जनका । येन सः । यद्वा, दण्ड:-गर्वस्तस्य भङ्गः-अपनयनं विनय इत्यर्थस्तेन रञ्जितो जनक:-पिता येन सः । यद्वा, दण्ड:चतुर्थोपायस्तस्य भङ्गेन-मोचनेन रञ्जितलोकः । “दण्डः सैन्ये दमे यमे । [१२१] मानव्यूहग्रहभेदेष्वष्वेऽर्कानुचरे मधि । प्रकाण्डे लगुडे कोणे चतुर्थोपायगर्वयोः ।" इत्यनेकार्थः [२।१२१-१२२] । क इव ? राघव इव-राम इव । स च कीदृक ? अलघुकोदण्डस्य-शाम्भवबृहद्धनुषो भङ्गेन रञ्जितः-हषितो जनक:-जनकाख्यनृपो येन सः । पुन: किम्भूतो नल: ? 'जातरूपसंपत्ति:' जाता-सम्भूता रूपसम्पत्ति:-सौन्दर्यसमृद्धिर्यस्य स: । “रूपं तु श्लोकशब्दयोः । पशावाकारे सौन्दर्ये नाणके नाटकादिके । [३०१] ग्रन्थावृत्तौ स्वभावे च ।" इत्यनेकार्थः [२।३०१-३०२] । क इव ? सुमेरुरिव-मेरुरिव । स च कीदृक् ? जातरूपं-सुवर्णं सम्पत्तिः-सम्पत् यस्य सः । पुनः कीदृक् नलः? पुण्ये भजतीत्येवं शील पुण्यभागी, तथा रथोऽस्यास्तीति रथी-रथवान्, तथा सह हितैःसुखकारिभिर्मित्रैर्वति इति सहितः । क इव ? तुहिनाचल इव-हिमाद्रिरिव । स च कीहक् ? पुण्या-पवित्रा या भागीरथी-गङ्गा तया सहित:-अन्वितः । पुनः किम्भूतः ? प्रणयिनां-अथिनां चिन्तामणिरिव-चिन्तितप्रदो मणिरिव । यथा चिन्तामणिश्चिन्तितं सर्वं दत्ते तथा सोऽपि । तथा सङग्रामाय प्रभवन्तीति सांग्रामिका:-सांयुगीनास्तेषां मध्ये अग्रणी:मुख्यः, महासाङ्ग्रामिक इत्यर्थः । सन्तापादिभ्यश्चतुर्थ्यन्तेभ्यः प्रभवतीत्यर्थे [तस्मै प्रभवति सन्तापादिभ्यः [पा० सू० ५।१।१०१] । तथा दर्शनीयानां-दर्शनार्हाणां वस्तूनां मध्ये आदर्श इव-दर्पण इव यः सः । यथा आदर्शः सुतरां दर्शनीयो भवति विघ्नविनाशकत्वात् । "आदर्शदर्शनादेव सर्वे विघ्नाः प्रलीयन्ते" [ ] इति वचनात् । तथाऽयं नलोऽपि सुतरां दर्शनीय इति भावः । तथा अध्ययनं-पठनं विदन्तीति अध्ययनविदस्तेषां मध्ये उपाध्यायःअध्यापकः, प्रधानोऽध्ययनविदित्यर्थः । तथा शौर्यशालिनां-शूराणां मध्ये आचार्यः-मुख्यः । तथा शस्त्रशास्त्रस्य-धनुर्वेदस्य उपदेशक:-उपदेष्टा कथकः । तथा दृढं-सस्थाम प्रहरन्तीत्येवंशीला दृढप्रहारिणस्तेषां दृढप्रहार-दातॄणां मध्ये परिवृढः-स्वामी । तथा पुण्यकारिणांधर्मकारिणां मध्ये अग्रे गण्यत इति अग्रेगण्यः, मुख्य इत्यर्थः । तथा विपश्चितां-विदुषां मध्ये अपश्चिमः-प्रधानः । तथा त्यागवतां-दातृणां मध्ये अपाश्चात्यः-प्रथमः । तथा
१. प्रहरति अनू० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org