________________
दमयन्ती - कथा - चम्पू:
,
कारिणां अपश्चिमो विपश्चितां अपाश्चात्यस्त्यागवतां, अचरमश्चातुर्याचार्याणां, अपर्यन्तभूभाराधारस्तम्भभूतभुजकाण्डकीलितशालभञ्जिकायमानविजयश्रीः, श्रीवीरसेनसूनुः, समस्तजगत्प्रासादशिर:शेखरीभूतकान्तकीर्त्तिध्वजो, राजा, राज्यलक्ष्मीकरेणुकाचापलसंयमनशृङ्खलः, नलो १० नाम ।
४०
,
यस्यामिति । यस्यां-नगर्यां वीरसेनस्य- वीरसेननाम्नो राज्ञः सूनुः - आत्मजो नलो नाम इति प्रसिद्धो राजा आसीदिति संटङ्कः । किम्भूतो नलः ? निजभुजयुगलबलेनआत्मबाहुद्वयसामर्थ्येन विदलितं-विध्वस्तं यत्सकलवैरिवृन्दं समस्तारिकदम्बकं तस्य या सुन्दर्यः-वध्वस्तासां नेत्रनीलोत्पलेभ्यो गलन् - श्रवन् यो बहल :- निविडो बाष्पपूर:अश्रुप्रवाहस्तस्मिन् प्लवमान:- तरन् प्रताप एव राजहंसो यस्य स: । एतावता सर्ववैरिविनाशेन प्रतापाधिक्यं तस्य दर्शितम् । तथा सकलजलनिधीनां वेलावनेषुतीरकाननेषु सकलमण्डल - विजयात् निखाता- निक्षिप्ता यत्कीर्त्तिस्तभ्भाः-जयस्तम्भास्तैविभूषितं - शोभितं भुवनवलयं - भूमण्डलं येन सः । वेलापदेनैवाब्धितीरप्राप्तौ जलनिधीति पदं करिकलभादिवदुक्तपोषकत्वान्न दुष्टम् । पुनः किविशिष्ट: ? बहुधा - अनेकशो रणक्षम:सङ्ग्रामकुशलः । क इव ? वसुन्धराया: - धराया " आभोग इव परिपूर्णता इव, सोऽपि बहूनां गिर्यादीनां धारणे क्षमः समर्थः । “आभोगः परिपूर्णत्वे वरुणे छत्रयत्नयोः ' इत्यनेकार्थः [३।११५] । तथा नवसुधां अर्थात् देवद्विजसम्बद्धां हरतीत्येवंशीलः वसुधाहारी । क इव ? प्रसाद े इव-नृपमन्दिरमिव स च नवया सुधया-लेपविशेषेण हारी - रम्य: । तथा अनेकधा-सप्ताङ्गत्वात् बहुधा या मा - राज्यलक्ष्मीस्तस्या आश्रयः - आधारः, "स्वाम्यमात्यः सुहृत्कोशो राष्ट्रदुर्गबलानि च । राज्याङ्गानि प्रकृतयः " [ ] इति राज्यसप्ताङ्गमुच्यते । क इव ? रविरिव, स च अनेकस्य - प्रचुरस्य धाम्न: - तेजस आश्रयो भवति । तथा सदानित्यं स्त्रीजनस्य-रमणीलोकस्य रम्यतया नवः - अपूर्व इव । क इव ? दनुजलोक इव, स च दानवैः सह वर्तत इति सदानवो भवति । पुनः किम्भूतो नलः ? विश्वेषां - समस्तानाममित्राणां-शत्रूणां त्रासं भयं जनयतीति विश्वामित्रत्रासजननः । क इव ? वसिष्ठ इव ! स च कीदृक् ? विश्वामित्रस्य - गाधेयस्य त्रासजनन:- भयकृत् । त्रिशङ्कु-नाम्नः क्षत्रियस्य विश्वामित्रेण सत्रं कारितमासीत् । ततो याज्ययाजकत्वेन तस्मै कुद्धो वसिष्ठः स्वनिर्वासं तस्य निवारितवान् इत्यागमः । पुनः किम्भूतो नलः ? 'परीक्षितनयः' परीक्षितः-विचारितो नय:- षाड्गुण्यं येन सः । क इव ? जनमेजय इव - नृपविशेष इव । स
१. ये अनू० । २. प्रासाद अनू०
।
For Personal & Private Use Only
Jain Education International
-
www.jainelibrary.org