SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः ३६ जवे" इत्यनेकार्थः [३।६०७ ] | पक्षे, किम्भूताः सलिलाशयाः ? सौगन्धिकानां कल्हाराणां प्रसरः-प्रवृत्तिर्येषु ते । टिप्पनककारेण तु प्रसारा इति पाठमधिकृत्य व्याख्यायि, प्रसार:लघ्वापणो विस्तारश्चेति । किम्बहुना - किं बहु व्यावर्ण्यते तस्याः सकलसमृद्धिमत्त्वात् । भूमयो बहिरन्तश्च नानारामोपशोभिताः । कुर्वन्ति सर्वदा यत्र विचित्रवयसां मुदम् ॥३१ ॥ १ भूमय इति वृत्तम् । यत्र - यस्यां नगर्यां भूमयो बहि: - बाह्यभागे नाना - अनेकविधैरारामैरुपशोभिताः- विभूषिताः सत्यः, तथा अन्तश्च - मध्ये नाना - अनेकविधाभिर्लघुतरुणीवृद्धाभी रामाभिः - स्त्रीभिरुपशोभिताः सत्यो विचित्रवयसां - विविधपक्षिणां । पक्षे, विचित्रं वयः-तारुण्यं येषां ते तेषां रम्यवयसां यूनां च सर्वदा - शश्वत् मुदं - हर्षं कुर्वन्ति । बहिरारामोपशोभिता भूमयः पक्षिण आनन्दयन्ति, अन्तर्भूमयो रामोपशोभिता: यून आह्लादयन्तीति भाव: । "वयस्तारुण्ये बाल्यादौ खगे" इत्यनेकार्थः [२२६०३] ||३१|| यस्यां च भक्तभाजो? देवतायतनेषु देवताः ससन्निधाना दृश्यन्ते हट्टेषु वणिग्जनाः । अक्षरसावधानाः कविगोष्ठीषु कवयो विलोक्यन्ते द्यूतस्थानेषु द्यूतकारा: । कान्तारागप्रियाः करिणो राजद्वारेषु सञ्चरन्ति ४वेश्याङ्गणेषु भुजङ्गाः । यस्यां च चतुरुदधिवेलाविराजितसकलधराचक्रचूडामणौ मणिकर्मनिर्मित हर्म्यरम्यतया " सुरपतिपुरीपराभवकारिण्याम् । अव्ययभावो ६ व्याकरणोपसर्गेषु न धनिनां धनेषु । दानविच्छित्तिरुन्माद्यत्करिकपोलमण्डलेषु ́ न त्यागिगृहेषु । भोगभङ्गो भुजङ्गेषु न विलासिलोकेषु । स्नेहक्षयो रजनिविरामविरमत्प्रदीपपात्रेषु न प्रतिपन्नजनहृदयेषु । कूटप्रयोगो गीततानविशेषेषु न व्यवहारेषु । वृत्तिकलहो वैयाकरणच्छात्रेषु न स्वामिभृत्येषु । स्थानकभेदश्चित्रेषु न सत्पुरुषेषु । किम्बहुना ! तथा यस्यां च-नगर्यां देवतायतनेषु - देवकुलेषु देवताः, हट्टेषु वणिग्जना ईदृग्विधा For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy