________________
प्रथम उवासः
१७३६] इत्यस्मादुप्रत्ययो दीर्घश्च भवति पांसुः । पक्षे, किम्भूताः सागराः ? अपां-अम्भसा सुष्ठ वसन्त्येष्विति सुवसनाः । अपामिति "कर्तरि षष्ठी" [ ] जलवासा इत्यर्थः । तथा यत्र वनानीव भवनानि-गृहाणि । किम्भूतानि भवनानि ? सह मत्तवारणैः-मत्तालम्वन्ति इति समत्तवारणानि । किम्भूतानि वनानि ? सह मत्तवारणैः-समदगजैवर्तन्त इति समत्तवारणानि। तथा यत्र स्वर्गभूपा इव-शक्रा इव कूपाः । किम्भूताः कूपाः ? सुरसेनशोभनजलेन अन्विताः-युताः । पक्षे, स्वर्गभूपास्तु सुरसेनया-त्रिदशसैन्येनान्विताः । तथा यत्र हारा इव-मुक्तावल्य इव विहारा:-चैत्यानि सन्ति । किम्भूता विहाराः ? अधिकं-सोत्कर्ष यथा भवति तथा धरोद्देशं-१पृथिवीप्रदेशं उद्भासयन्तः-विभूषयन्तः । पक्षे, किम्भूता हाराः? कन्धरोद्देश-शिरोधिप्रदेशं अधिकृत्य अधिकन्धरोद्देशं ग्रीवामित्यर्थः । विभूषयन्तः विभक्त्यर्थेऽव्ययीभावः ।
तथा यस्यां च नगर्यां अन्तः-नगरीमध्ये प्रचुराः-बहुलाः प्रासादाः-देवभूपगृहाः, बहिश्चः वारणेन्द्राः-गजाः, ईदृग्विधा दृश्यन्ते । किम्भूताः प्रासादाः ? बहुलाः क्षणा:-उत्सवा भूमिका वा येषु ते बहुलक्षणाः । "क्षणः कालविशेष स्यात् पर्वण्यवसरे महे" इत्याद्यनेकार्थः [२।१३६] । पुनः किम्भूताः ? सुधा-लेपविशेषः सा विद्यते येषु ते सुधावन्तः । किम्भूता वारणेन्द्राः ? बहूनि लक्षणानि येषां ते, तथा सुष्ठु धावन्तः-वेगेन गच्छन्तः । तथा यस्यां पुर्यां अन्त:-मध्ये सङ्गीतकशाला:२ प्रेक्षणनिमित्तप्रयुक्तगीतनृत्यवाद्यत्रयं सङ्गीतं तदेव संगीतकं तस्य शाला:-गृहाः, बहिश्च कमलैरुपलक्षिता दीर्घिका:-वाप्य: कमलदीर्घिकाः, क्रीडार्थं कमलदीर्घिका:-क्रीडाजलाधाराः समालोक्यन्ते । किम्भूताः सङ्गीतकशाला: ? सुशोभित:-अतिशयेन शोभायुक्तो रङ्गः-नृत्यस्थानं यासु ताः । किम्भूता दीर्घिकाः ? सुशोभिनस्तरङ्गा यासु ता: सुशोभिततरङ्गाः । तथा यत्र अन्त:-मध्ये कथमपि महता कष्टेन पण्यस्त्रियः-वाराङ्गना अभिगम्यन्ते-प्राप्यन्ते, बहिश्च क्षेत्रभूमयोऽभिगम्यन्ते-अतिक्रम्यन्ते । किम्भूताः पण्यस्त्रियः ? बहुधा-अनेकैः प्रकारैः, अन्यैविटैनिरुद्धा-वेष्टिता, अतएव दुःप्रापाः । किम्भूता: क्षेत्रभूमयः ? बहुभिर्धान्यनिरुद्धाः, अत एव दुरतिक्रमणीयाः । तथा यत्र अन्त:-मध्ये सभा, बहिश्च सहकारवनराजयः-आम्रकाननपंक्तयः शोभन्ते । किम्भूताः सभाः ? नाना-अनेकविधा ये आशुकवयः शीघ्रकवयस्त एव विभूषणं-मण्डनं यासां ताः। किम्भूता आम्रवनराजयः ? नाना-अनेकवर्णाः ये शुकाःपक्षिविशेषास्तैविभूष्यन्ते यास्ता: नानाशुकविभूषणाः । तथा यत्र अन्तः-पुरीमध्ये विपणयःहट्टाः, बहिश्च सलिलाशया:-जलाधारा विराजन्ते । किम्भूता विपणयः ? सुगन्धीनि द्रव्याणि पण्यमेषामिति सौगन्धिकाः-वणिजस्तेषां प्रसरः-प्रणयो येषु ते । "प्रसरस्तु सङ्गरे प्रणये
१. पृथ्वीं अनू० । २. संगीतकलाः अनू० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org