SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ दमयन्ती-कथा-चम्पू: किंबहुना-किं बहूक्त्या ? देशः पुण्यतमोद्देशः कस्यासौ न प्रियो भवेत् । युक्तोऽनुक्रोशसम्पन्नैर्यो जनैरिव योजनैः ॥२८॥ देश इति । असौ-आर्यावर्तो देशः कस्य-जनस्य प्रिय':-वल्लभो भवेत् । किम्भूतो देशः ? पुण्यतमा-अतिशयेन पवित्रा उद्देशा:-वनादिभूभागा यस्य स पुण्यतमोद्देशः । असाविति कः ? यो देशः अनुक्रोशेन-दयया सम्पन्नैः-युक्तैर्जनैर्युक्तो भृतः । जनैः कैरिव ? योजनैरिव । किम्भूतैर्योजनैः ? अनुगता:-परस्परं सम्बद्धाः क्रोशा:-गव्यूतानि अनुक्रोशास्तैः सम्पन्नानि अनुक्रोशसम्पन्नानि तैः ॥२८॥ देशवर्णनामभिधाय अथ तदेकदेशीयदेशाख्याख्यानपूर्वकं सप्रपञ्चं तन्मध्यभागवर्तिनगरीवर्णनामाह तस्य विषयस्य मध्ये निषधो नामास्ति जनपदः प्रथितः । तत्र पुरी पुरुषोत्तमनिवासयोग्यास्ति निषधेति ॥२९॥ तस्येति । तस्य विषयस्य-आर्यावर्ताख्यदेशस्य मध्ये निषधो नाम जनपदो नीवृत्प्रथितः-विख्यातोऽस्ति । तत्र निषधाख्यजनपदे निषधा इति पुरी अस्ति । किम्भूता ? पुरुषोत्तमस्य-विष्णोनिवासयोग्या-अवस्थानायोचिता अतिश्रेष्ठत्वात् । यद्वा, पुरुषेषु उत्तमाः पुरुषोत्तमा:-प्रधानपुरुषास्तेषां निवासयोग्या ॥२९॥ जननीतिमुदितमनसा सततं सुस्वामिना कृतानन्दा । सा नगरी नगतनया गौरीव मनोहरा भाति ॥३०॥ जनेति । सा-२निषधानगरी सततं-निरन्तरं मनोहरा-रम्या भाति-शोभते । किम्भूता नगरी ? सुस्वामिना-सुप्रभुणा कृतः-विहित आनन्दः-हर्षो यस्याः सा कृतानन्दा । किम्भूतेन ? जनानां नीत्या-स्वस्वमर्यादानुल्लंघनेन मुदितं-हृष्टं मनो यस्याऽसौ जननीतिमुदितमनास्तेन, यदा जनाः स्वस्वनीत्या प्रवर्तन्ते तदा राजाऽपि हृष्यति । पुनः किम्भूता ? न गतः-भ्रष्टो नयो यस्याः सा नगतनया-न त्यक्तन्याया अपितु सनया । यत एव न भ्रष्टनया अतएव जने नीतिमत्त्वम् । केव ? गौरीव-पार्वतीव । यथा गौरी सततं भाति तथेयमपि । १. न प्रियः अनू० । २. 'निषधा' नास्ति अनू० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy