SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ प्रथम उवासः किम्भूता गौरी ? जननी-मातेति हेतोर्मुदितमनसा-हृष्टेन अतएव शोभनेन-हर्षोचित्ताकृतिसुन्दरेण स्वामिना-कातिकेयेन कृत आनन्दो यस्याः सा, स्वपुत्रावलोकनादुमाया अपि हर्षोत्पत्तिः । पुन: किम्भूता ? नगस्य-हिमाद्रेस्तनया-पुत्री नगतनया । तथा मनसि हरः स्मर्यमाणतया यस्याः सा मनोहरा ॥३०॥ यस्याम_लिहेन्द्रनीलशालशिखरसहस्रनिसृतांशुजालबालशाद्वलाकुराग्रग्रासलालसा२: ३स्खलन्तः खेदयन्ति३ मध्यन्दिने सादिनं रविरथतुरङ्गमाः । यस्यां च स्फटिकमणिशिलानिबद्धभवनप्राङ्गणगतासु सञ्चरद्गृहिणीचरणालक्तकपदपंक्तिषु पतन्ति निर्मलसलिलाभ्यन्तरतरत्तरुणारुणकमलकाङ्क्षया मुग्धमधुपपटलानि । यस्यां च विविधमणिनिर्मित वासभवनभव्यभित्तिषु स्वच्छासु स्वां छायामवलोकयन्त्यः कृतापरस्त्रीशङ्का कथमपि प्रत्यानीयन्ते प्रियैः प्रियतमाः। यस्यां च दिव्यदेवकुलालङ्कृताः स्वर्गा इव मार्गाः, सततमपांसुवसनाः सागरा इव नागराः, समत्तवारणानि वनानीव भवनानि, सुरसेनान्विताः स्वर्गभूपा इव कूपाः, अधिकन्धरोद्देशमुद्भासयन्तो हारा इव विहाराः । ___यस्यां च बहुलक्षणा:१० सुधावन्तो दृश्यन्तेऽन्तः प्रचुरा:११ प्रासादा१२, बहिश्च वारणेन्द्राः । सुशोभितरङ्गाः समालोक्यन्तेऽन्तः सङ्गीतकशाला ३, बहिश्च क्रीडाकमलदीर्घिकाः । बहुधान्यनिरुद्धाः कथमप्यभिगम्यन्तेऽन्तः पण्यस्त्रियो, बहिश्च क्षेत्रभूमयः । नानाशुकविभूषणाः शोभन्तेऽन्तः सभा बहिश्च सहकारवनराजयः । सौगन्धिकप्रसरो१४ विराजन्ते१५-ऽन्तविपणयो, बहिश्च, सलिलाशया:१६ । किम्बहना१७ यस्यां च नगर्यां स्खलन्तः-गतिविघातं कुर्वन्तो रवेः-सूर्यस्य रथतुरङ्गमाः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy