SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ प्रथम उछासः ३१ तथा यत्र देशे चमरकाणां-गोविशेषाणां वार्ता-कथनं, यथा तत्र चमरकास्सन्तीत्येवं रूपा, तथा परमं-उत्कृष्टं हिम-तुहिनं तेनोपघातः-उपद्रवः परमहिमोपघातः, स च तुहिनाचलस्य-हिमाद्रेः स्थलीषु-भूभागेषु श्रूयते, न प्रजासु । अत्र पक्षे चः-भिन्नः१ मरक:मरणबाहुल्यं तस्य वार्ता-किम्वदन्ती, तथा परस्य-स्वव्यतिरिक्तस्य महिमा-माहात्म्यं तस्या उपघात:-विनाशः परमहिमोपधातः स च श्रूयते । न क्वापि मरकवार्ता श्रूयते । न च कोऽपि परकीयां महिमामसहिष्णुतया उपहन्तीत्यर्थः । तथा यश्च देशः नीतिमद्भिः-नयोपगतैः पुरुषैरधिष्ठितोऽपि आश्रितोऽप्यनीतिः, अपिविरोधे, स च तुल्यार्थव्याख्यायाम् । कथं यः नीतिमत्पुरुषाधिष्ठितो भवति स कथं अनीतिः ? न विद्यते नीतिर्यस्मिन् स अनीतिः, स च अनीतिर्न भवति किन्तु स नीतिर्भवेत् । अयं विरोधः, तत्परिहारस्तु-न विद्यते ईतिः-उपद्रवो यस्मिनित्यनीतिः । एवमग्रेऽपि विरोधतत्परिहारौ द्योत्यौ । तथा यो देशः सह वटैः-न्यग्रोधैर्वर्तत इति सवटस्तथाविधोऽपि नवटैः संकुल:-त्याप्त इति विरोधस्तत्परिहारपक्षे तु-अवटैःकूपैर्ग भिर्वा संकुल अवटसंकुलः । तथा कारूपयुतोऽपि-कुत्सितमीषद्वा रूपं कारूपं तेन युतोऽपि-सहितोऽपि न गता-न भ्रष्टा रूपशोभा यस्य स अगतरूपशोभः, अयं विरोधः, तत्परिहारस्तु-कारवाः-शिल्पिनस्तैरुपयुतस्तथा अगैः-नगैस्तरुभिश्चोपशोभा यस्येति । तथा यत्र च देशे इदमिदमेते कुर्वन्ति न जनास्तथाहि-नक्षत्रराशय:-अश्विन्यादिभपंक्तयः गुरोः-बृहस्पतेः व्यतिक्रम-उल्लंघनं गुरुव्यतिक्रमं कुर्वन्ति, अश्विन्यादयः शीघ्रचारित्वेन गुरुमुल्लंघ्य यान्तीत्यर्थः, परं न जनाः गुरूणां पितॄणां पूज्यानां वा व्यतिक्रम कुर्वन्ति । तथा यत्र मात्रावर्णावयवस्तस्याः कलह-अन्योक्तानभ्युपगमरूपं लेखशालायां पठनाय नियुक्ता लेखशालिका:-लेखनशिक्षका बालाः कुर्वन्ति । "तत्र नियुक्तः" [पा० सू० ४।४।६९] सप्तम्यन्तात् इति नियुक्तेऽर्थे ठक् । यत्रोपविश्य पट्टादिषु वर्णविन्यासं शिशव: शिक्षन्ते सा लेखशालेति, न जनाः मात्रा-जनन्या सह कलहं कुर्वन्ति । तथा उलूका:पेचकाः मित्रस्य-सूर्यस्य उदये-उद्गमे द्वेष-ईर्ष्या कुर्वन्ति । किमित्यसावुदित इति, न जना मित्रस्य-सुहृद उदये-ऐश्वर्यप्राप्तौ द्वेषं कुर्वन्ति । तथा यत्र कोकिला:-पिक्य अपत्यस्यनिजसन्तानस्य त्यागं-काकनीडेषु मोचनं कुर्वन्ति, न जना अपत्यत्यागं कुर्वन्ति, सद्वृत्तप्रवृत्तत्वेन जारजाताद्यभावात् । तथा यत्र ग्रीष्मदिवसाः-उष्णतुदिनानि बन्धुजीवानांबन्धूकानां विघातं-म्लानतां कुर्वन्ति, गीष्मदिनमध्यंदिनेषु तेषु तेषां शोषात् न जना, बन्धूनां स्वजनानां जीवविघातं-प्राणच्यावनं कुर्वन्ति, धनाद्यलुब्धत्वात् । १. भिन्नस्तेन अनू० । २. 'मोचनं' नास्ति अनू० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy