________________
३०
दमयन्ती - कथा -- चम्पूः
यत्र चमरकवार्त्ता परमहिमोपघातश्च तुहिनाचलस्थलीषु श्रूयते न
प्रजासु ।
यश्च नीतिमत्पुरुषाधिष्ठितोऽप्यनीतिः सवटोप्यवटसंकुल: १, कारूपयुतोऽप्यगतरूपशोभः ।
यत्र च गुरुव्यतिक्रमं नक्षत्रराशयः, मात्राकलहं लेखशालिकाः, मित्रोदयद्वेषमुलूकाः, अपत्यत्यागं कोकिलाः, बन्धुजीवविघातं ग्रीष्मदिवसाः कुर्वन्ति न जना: ' I
किम्बहुना ।
[
स देशः कथं च स्वर्गान् न विशिष्यते - नाधिको भवति । " कर्म्म कर्त्तरि यक् " ] | वैशिष्ट्यमेव दर्शयति
यत्र देशे गृहे गृहे-प्रतिगृहं गौर्य:- गौरांग्यः शुद्धोभयान्वया वा स्त्रियः सन्तीति क्रिया यथासम्भवं सर्वत्र योज्या । तथा यत्र महानीश्वरः - अतिसमृद्धो महेश्वरो लोक:- सर्वोऽपि जन:। तथा यत्र सह श्रिया - शोभया वर्तन्त इति सश्रीका हरयः - अश्वाः । तथा यत्र पदे पदेप्रतिस्थानं लोकपाला:-राजानो धनं ददातीति धनदाः, स्वर्गे तु नैवम् । एकस्मिन्नेवेश्वरगृहे गौरी - उ - उमा, तथा स्वर्गे एक एव महेश्वर:- शिवः । तथा सलक्ष्मीकः - हरिर्विष्णुरेक एव न बहव: । तथा स्वर्गे एकस्मिन्नेव स्थाने एक एव धनदः - कुबेरो लोकपालस्तथा च कथं स्वर्गान्नायं देशोऽधिको भवेदिति । केवलं स्वर्गलोकादयं विशेष:- अत्र देशे सुराधिपः- राजा न, अधि-आधिक्येन पिबतीति अधिपः सुरायाः - मद्यस्य अधिपः सुराधिपः । तथा न च कश्चित्-कोऽपि विरुद् नायको विनायकः, सर्वोऽपि सुनायक इत्यर्थः । सुरामधिपिबतीति तु वाक्ये "कर्मण्यम्" [पा० सू० ३।२।१] इति सूत्रेण अण् प्रसक्त्या गोसंदायवत् सुराधिपाय इत्यनिष्टं स्यात्, तेन पूर्वोक्त एव समासो विधेयः । सुरा प्रपावत् । स्वर्गे तु सुराणामधिपः-राजा इन्द्रः, विनायक : - गणेशश्च |
तथा यत्र देशे लतानां - वल्लीनां सम्बन्ध: - योगो लतासम्बन्धः, कलिकायाःकोरकस्य उपक्रमः-प्रारम्भः कलिकोपक्रमश्च पादपेषु दृश्यते, न पुरुषेषु । चलता-लौल्यं तस्याः सम्बन्धः-संग: चलतासम्बन्धः, अचञ्चला इत्यर्थः । पुरुषपक्षे चलतासम्बन्ध इति समुदितं पदम् । तथा कलिः - कलहः, कोप:- क्रुत् तयोः क्रमः -पारम्पर्यं कलिकोपक्रमः स च दृश्यते, न कोऽपि पूर्वं कलिं कुरुते पश्चात् कोपमिति भावः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org