SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ प्रथम उवासः अपि चेति पुनः । भवन्तीति । फाल्गुने मासि वृक्षाणां-तरूणां शाखा:-शाला: वृक्षशाखा विगता पल्लवा याभ्यस्ता विपल्लवा यत्र भवन्ति-जायन्ते । अत्र भूधातुः प्रादुर्भावार्थः । यदुक्तम् सत्तायां मङ्गले वृद्धौ निवासे व्याप्तिसम्पदोः । अभिप्राये च शक्तौ च प्रादुर्भावे मतौ च भूः ॥ [ ] इति । जनस्य तु कदापि च विपदां-आपदां लवा:-लेशा अपि च न भवन्ति । अपि चेत्युभयत्र सम्बध्यते । मासीति, मासस्य शसादौ वातो लोपः ॥२६।। ____यत्र' सौराज्यरञ्जितमनसः सकलसमृद्धिवर्धित महोत्सवपरम्परारम्भनिर्भराः, सततमकुलीनं कुलीनाः, प्राप्तविमानमप्राप्तविमानाः३, कतिपयवसुविराजित मनेकवसवः, समुपहसन्ति स्वर्गवासिनं जनं जनाः । यत्रेति । यत्र देशे सौराज्येन-शोधननृपतिभावेन रञ्जितं-आवजितं प्रमोदितं मनो येषां ते सौराज्यरञ्जितमनसः । तथा सकला:-समस्ता या समृद्धि:-सम्पत् तया वद्धितावृद्धि प्रापिता या महोत्सवपरम्परा-क्षणपरिपाटी तस्या य आरम्भः-उपक्रमस्तेन निर्भराःभृताः जनाः-लोकाः स्वर्गवासिनं-स्वर्गिणं जनमुपहसन्ति-न्यक्कुर्वन्ति । कथमित्याहकिम्भूता जनाः ? कुलीनाः-अभिजाताः । तथा न प्राप्तो विमानो भावप्रधानत्वान्निर्देशस्य विमानता तिरस्कारो राजादिकृतो यैस्ते अप्राप्तविमानाः । तथा अनेकानि-बहूनि वसूनिधनानि येषां ते अनेकवसवः । किम्भूतं स्वर्गवासिनं जनम् ? सततं-निरन्तरं न कौ-धरायां लीन:-आश्रितस्तं अकुलीनम् । तथा प्राप्तं विमानं-देवयानं येन सः प्राप्तविमानस्तं । तथा कतिपयैरष्टसंख्यैः-वसुभिः ध्रुवादिभिर्देवैविराजितः कतिपयवसुविराजितस्तम् । न्यक्कारस्तु तुल्यार्थे व्याख्येयः, स चेत्थं जनाः कुलीना:-अभिजाता: स्वर्गिवासि जनस्तु न कुलीन:नाभिजात इत्यादिरूप: । तथा कथं च स स्वर्गान् न विशिष्यते । यत्र गृहे गृहे गौर्यः स्त्रियः, महेश्वरो लोकः, सश्रीका हरयः, पदे पदे धनदाः सन्ति लोकपाला: । केवलं न सुराधिपो राजा । न च विनायकः९ कश्चित् । .. यत्र चलतासम्बन्धः कलिकोपक्रमश्च पादपेषु दृश्यते न पुरुषेषु१० । १. अप्राप्तविमानभङ्गाः अनू० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy