________________
२८
दमयन्ती-कथा-चम्पू: किम्भूताः? द्विगुना-गोयुगयुक्तेन तत्पुरुषेण-तत्स्वामिनाऽधिष्ठिता:-आश्रिताः, द्विगुनेति चोपलक्षणं तेन बहुगोयुक्तेनाऽपि, चकारोऽप्यर्थो द्विगुनाऽपि तत्पुरुषेणाधिष्ठिताः । तथा दृश्यमाना बहवो व्रीहया येषु ते दृश्यमानबहुव्रीहय इति भूमेः सस्यसम्पद्गुणः । पक्षे किम्भूताः कादम्बरीगद्यबन्धाः ? मनोहारिण: साराः श्रेष्ठाः सद्वन्द्वाः-द्वन्द्वसमाससहितास्ततः कर्मधारयः । पुनः तत्पुरुषेण द्विगुना च समासेनाधिष्ठिताः, तथा दृश्यमानबहुव्रीहिसमासाः, तथा च द्वन्द्वतत्पुरुषद्विगुबहुव्रीहिसमासबहुला इत्यर्थः । । किम्बहुना-किं बहु वर्ण्यते तस्य देशस्य तदेवाह
नास्ति सा नगरी यत्र न वापी न पयोधरा । दृश्यते न च यत्र स्त्री नवापीनपयोधरा ॥२६॥
नास्तीति । यत्र-आर्यावर्त्तदेशे सा काऽपि नगरी नास्ति यत्रेति यस्यां न वापी-न दीर्घिका । तथा सा नगरी नास्ति यस्यां न पयोधरा-न पयःप्रधाना भूमिः । तथा सा नगरी नास्ति यस्यां न च स्त्री-कान्ता दृश्यते । एतत्त्रयमपि क्रमेण चतुर्थपादेन विशिनष्टिकिम्भूता वापी ? "णु स्तुतौ" [पा० धा० १११०] नवं स्तुतिमाप्नुतः, अभीष्टमिति' न वापिनी, तथाभूते इनपयसी-स्वामिजले धरतीति नवापीनपयोधरा । स धन्यो येनेयं वापी कारितेति स्तुतिमत्तत्कर्तृधरा सुस्वादतया स्तव्यजलधरा चेत्यर्थः । किम्भूता पयोधरा ? वपन्त्यवश्यमिति वापिन:-कर्षकास्तेषां इनाः-आजीवहेतुत्वात् स्वामिनः पयोधरा:-मेघा यस्यां सा वापीनपयोधरा, पश्चान्नञ् सम्बन्धः, मेघानपेक्ष्यसस्यसंपत्तिमतीत्यर्थः । किम्भूता स्त्री ? नवा-तरुणी, तथा २पीनपयोधरा-पीनस्तनी च यस्यां नगर्यां दृश्यते सैव नगरी यत्र देशेऽस्ति । अथवा यत्र देशे सा नगरी नास्ति, यस्यां नगर्यां वापी च न दृश्यते। कीदृशी वापी ? न न पयोधरा-अपितु पयोधरा, नवयस्य प्रकृतार्थसूचकत्वात् । तथा यत्र नगर्यामेवं विधा स्त्री च न दृश्यते । किम्भूता ? नवा-तरुणी तथा पीनपयोधरा । सर्वास्वपि नगरीषु पयोधरा-वाप्यः, तरुण्यः-पीनस्तन्यश्च स्त्रियो दृश्यन्त इति भावः ॥२६॥
पुनर्देशं व्यावर्णयन्नाहअपि च
भवन्ति फाल्गुने मासि' वृक्षशाखा विपल्लवाः ।
जायन्ते न तु लोकस्य कदापि च३ विपल्लवाः ॥२७॥ १. अभीक्ष्णमिति अनू० । २. पीनस्तन्यश्च अनू० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org