SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ प्रथम उद्दासः निर्वृतिस्थानानि । तथा यत्र पशूनां रक्षकाः पुरुषाः पशुपुरुषा:- जावालास्ते इव तडागभागा:सरसीप्रदेशाः । किम्भूतास्तडागभागाः ? 'जलाविलक्षणाः' जलाविला:- जलार्थिभिः सदा सेव्यमानतया जलपिच्छिलाः, क्षणाः- अवतारादितीरप्रदेशा यत्र । यद्वा, जलैराविला:नीरन्ध्राः पूर्णाः क्षणाः । खातकानि यत्र । पुनः किम्भूता: ? अप्रमाणाः-अगाधाः । किम्भूता: पशुपुरुषा: ? जडा:- मूर्खाः, पुनः विलक्षणा: - व्यपेतलक्षणशास्त्राः । यद्वा, अविभि:- मेण्ढैर्लक्ष्यन्ते - ज्ञायन्त इति अविलक्षणाः । यद्वा, अवीन् लक्षयन्तिसुदृशानप्युपलक्षयन्तीति अविलक्षणाः, पश्चात्कर्मधारयः । तथा अप्रमाणा:- प्रत्यक्षादिप्रमाणरहिताश्च । तथा यत्र कुपितकपिकुला - कुपितलङ्केश्वरकिङ्करा इव कुपितं सीतापहरणात् क्रुद्धं यत्कपिकुलं हनुमदादिवानरसमूहस्तेन आकुलिताः व्याकुलीकृताः ये लङ्केश्वरकिङ्कराः - रावणानुचरास्ते इव कूपाः सन्ति । किम्भूताः कूपा: ? भग्नाः कुम्भकर्णा यत्र ते भग्नकुम्भकर्णाः-स्फुटितघटकण्ठास्तथा घनाः - प्रचुराः स्वा: - स्वकीयाः पातालमूलोत्था न तु प्रवाहादिना प्रविष्टा आपः - पानीयानि येषु ते घनस्वापाः । यद्वा, घनस्वा: - बहुद्रव्या आपो येषु इति, वापीकूपादौ हि प्रायो जीर्णोद्धारार्थं निधिर्भवतीति ख्यातिस्ततः कर्मधारयः । किम्भूताः कुपि० ? भग्नः श्रीरामागमनकथनेन कुम्भकर्णस्य - रावणानुजस्य घन: - प्रचुर: षण्मासावधिकः स्वापः- शयनं यैस्ते भग्नकुम्भकर्णघनस्वापाः । रामः समागत' इत्युक्त्या तैस्तन्निद्रा त्याजितेति । तथा यत्र सरित इव - नद्य इव गावः धेनवः । किम्भूताः गाव: ? पीवरमूधं-आपीनं येषां ते पीवरोधसः । अत्र गो शब्दो धेन्वर्थोऽपि "स्त्रीनरलिङ्गितः" इति व्याडि: [ ] । तत: पुंस्त्वात् पीवरोध्न्यः इति न स्यात् । यद्वा, पीवरं च तदूधश्च पीवरोधस्तस्मात्पीवरोधसो हेतोर्गावः सरित इवेत्येवमर्थघटना विधेया । एतत्पक्षे धेन्वर्थो गो शब्दः स्त्रीत्व एव । किम्भूताः सरित: ? पीव - स्थूलं रोधः - तटं यासां ता: पीवरोधसः । तथा यत्र सूर्यद्युतय इव - रविदीप्तय इव कुलस्त्रियः - सद्वंशोत्पन्नरमण्यः । किम्भूताः कुलस्त्रियः ? सती - साध्वी तस्या व्रतं - एकपतिकात्वं, पतिव्रताधर्म इत्यर्थस्तेन अपगता - नष्टा दोषा:- कलङ्का यासां ताः सतीव्रतापदोषाः । किम्भूताः सूर्यद्युतयः ? सह तीव्रतापदोषैर्वर्तन्त इति सतीव्रतापदोषाः । यद्वा, सह तीव्रतया - उग्रतया वर्तन्त इति सतीव्रतास्तथा अपगता दोषा - रात्रिर्याभ्यस्ता अपदोषास्ततः कर्मधारयः । - १. सेव्यतया अनू० । Jain Education International तथा यत्र च कादम्बरीगद्यबन्धा इव कादम्बर्याः कथाविशेषस्य गद्यबन्धाःछन्दोऽनिबद्धामुत्कलावाक्यरचनास्ते इव केदाराः सन्ति । किम्भूताः केदारा : ? मनोहारीणिरुचिराणि सारसानां द्वन्द्वानि - दम्पतीरूपाणि युग्मानि येषु ते मनोहारिसारसद्वन्द्वाः । पुनः - For Personal & Private Use Only २७ www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy