SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ दमयन्ती-कथा-चम्पू: [अने० टीका० ३।३४] तथा चण्डिकायतनेषु-चण्डिकागृहेषु शूलसम्बन्धः-शूलस्यायुधविशेषस्य सम्बन्धः-संयोगः ताभिः स्वहस्ते तस्य गृहीतत्वात्, न प्रजासु शूलस्यरोगविशेषस्य सम्बन्धः, लोकानां तनौ वाताधिक्याभावात्तदभावः । अपरं यत्र देशे एते पदार्थाः । तद्यथा __ ग्रामाः संग्रामा इव वर्तन्त इति क्रिया सर्वत्राऽध्याहार्या । किम्भूताः ग्रामाः ? 'चतुरगोपशोभिता:' यत्र परिषन्मण्डपेषु ग्रामवृद्धा उपविशन्ति ते चतुरास्तैस्तथा गोपैःवल्लवैरुपशोभिताः-विभूषिताः । यद्वा, चुतरैः-दक्षैौपैः-पाशुपाल्यजीविभिरुपशोभिताः । गोशब्दस्य पशुमात्रवचनत्वात् । संग्रामपक्षे-यत्र चेति छेदः, ते च किम्भूता: ? तुरगैःअश्वैरुपशोभिताः । अपरं यत्र सर्वत्र नगा इव-अद्रय इव नगरप्रदेशा:-पौरविभागाः । किम्भूताः नगरप्रदेशा: ? 'तुङ्गसकलभवनाः' तुङ्गानि-उच्चानि सकलानि-समस्तानि सम्पूर्णानि वा भवनानि-गृहा यत्र ते । किम्भूता नगाः ? सह कलभैः-इभडिम्बैः वर्तत इति सकलभं, ईदृग्विधं यद्वनं तत् सकलभवनं, तुङ्गैः-पुन्नागैरुपलक्षितं सकलभवनं यत्र ते पुन्नागकरिपोतयुतकानना इत्यर्थः । यद्विश्वप्रकाश:-"तुङ्गः पुन्नागनागयोः तुङ्गः स्यादुन्नतेऽन्यवत्" [गान्तद्विक० २।१६]। तथा यत्र नूपुराणीव पुराणि । किम्भूतानि पुराणि ? सत्-शोभनमाचरणं-आचारस्तदेव मण्डनं-भूषा येषां तानि सदाचरणमण्डनानि । किम्भूतानि नूपुराणि ? सदा-नित्यं चरण:-अंहिस्तस्य मण्डनानि । तत्रैव तेषां विभूषायै निबध्यमानत्वात् । तथा यत्र देशे प्रभञ्जना इव-समीरणा इव जनास्सन्ति । किम्भूता जनाः? सह दानभोगाभ्यां वर्तन्त इति सदानभोगाः, यैर्लक्ष्मीर्दीयतेऽर्थिभ्यः स्वयं च भुज्यत इति । किम्भूताः प्रभञ्जनाः ? सदा-शश्वन्नभसि-व्योम्नि गच्छन्तीति नभोगा:आकाशगामिनः । तथा यत्र यौवनानीव-तारुण्यानीव वनानि, किम्भूतानि वनानि ? प्रियालं-राजादनं पनसं-वृक्षविशेषमियति-प्राप्नुवन्ति यानि तानि प्रियालपनसाराणि, अर्तेरण, राजादनपनससहितानीत्यर्थः । किम्भूतानि यौवनानि ? प्रियाणां-दयितानामालपनेन-सकामोल्लापेन साराणि-प्रधानानि । तथा यत्र चेटिका इव-दास्य इव वाटिकाः। किम्भूता वाटिकाः ? विटपिभ्यः-तरुभ्यो हिताः-तरुवृद्धिकारिण्यः। किम्भूताश्चेटिकाः ? विटैः-षिङ्गैः पिहिताः-वेष्टिताः विटपिहिताः । न तत्पार्श्व विटाः मुञ्चन्तीत्यर्थः । तथा यत्र सुकलत्राणीव-भर्तृभक्तस्त्रिय इव इक्षुक्षेत्रसत्राणि, इक्षुक्षेत्रेषु यानि सत्राणि-दानशालास्तानि इक्षुक्षेत्रसत्राणि२ । निर्वृत्तिस्थानानि निर्वृत्या-वृत्तेरभावेन स्वच्छन्दं स्थीयते एष्विति । किम्भूतानि सुकलत्राणि ? निर्वृत्तिः-सुखं तस्याः स्थानानि-पदानि १. भूषायै अनृ० । २. किम्भूतानि इक्षुक्षेत्रसत्राणि अनू० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy