________________
प्रथम उवासः
२५ त्वरोगविशेषस्य योगः-सम्बन्धो दृश्यते इति क्रियाऽग्रेऽपि स्वयं योज्या । "कुष्ठं भेषजरोगयोः" इत्यनेकार्थः [२।१०६] । तथा स्फुट्यते-व्यज्यतेऽर्थोऽनेनेति स्फोटः वैयाकरणप्रसिद्ध शब्दब्रह्म, स च वाक्यस्फोटः पदस्फोटश्चेति द्विधा नित्यश्च, तन्मते तस्य प्रकर्षण वाद:-कथनं स्फोटप्रवादः, स च वैयाकरणेषु-शाब्दिकेषु, न प्रजासु स्फोटस्य-पिटकस्य प्रवादः-कथनं न स्फोटकाः कस्यचिज्जायन्त इत्यर्थः । तथा ताला: चञ्चत्पुटादयस्तेष्वेव सन्निपातः-उभयहस्तयोजनं । यदुक्तम्-"शस्यां दक्षिणहस्तेन तालं वामेन योजयेत् । उभयोर्हस्तयोर्पातः सन्निपातः स उच्यते ॥" [ ] न प्रजासु सन्निपातः-वातपित्तश्लेष्मणामेकत्रयोगः, सन्निपातो रोगविशेषः । तथा ज्योतिःशास्त्रेषु ग्रहाः-सूर्यादयस्तेषां मेषादिराशौ संक्रान्तिः-संक्रमणं, न प्रजासु ग्रहसंक्रान्तिः, ग्रह:-बन्धनं तस्य संक्रान्ति । न कश्चिदन्यायं कुरुते यो बध्येतेत्यर्थः । तथा भूतप्रधानाख्यं तत्त्वं मूलप्रकृतिस्ततो महान् तस्मादहङ्कारः, अहङ्काराच्च पञ्च तन्मात्राणि 'शब्दतन्मात्रादिनि । तत्र शब्दतन्मात्रंमधुरादिशब्दविशेषः, रूपतन्मात्रं-शुक्लकृष्णादिरूपविशेषः, रसतन्मात्रं-तिक्तादिरसविशेषः, गन्धतन्मात्रं-सुरभ्यादिगन्धविशेषः, स्पर्शतन्मात्रं-मृदुकठिनादिस्पर्शविशेषः । एवमष्टौ, तत एकादशेन्द्रियाणि पञ्चभूतानि चेति षोडशविकाराः । एवं चतुर्विशति तत्त्वानि पञ्चविंशश्च पुरुषः । तथा मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त, षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः, इति सांख्या: । ततश्च तेष्वेव भूतविकारवादः-भूतान्येव विकारास्तेषां वादः-प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्न: पक्षप्रतिपक्षपरिग्रहो वादः, न प्रजासु भूत-प्रेतस्तस्य विकारः-उपद्रवस्तस्य वागःउक्तिर्भूतविकारवादः । न भूतेन कश्चिदभिभूयत इत्यर्थः । तथा तिथिषु-कर्मवाटीषु क्षयो दृश्यते, अद्य तिथिपातो जात इति, न प्रजासु क्षयः-विनाशः । तथा वनभूमिषु गुल्मवृद्धिःगुल्म:-स्तम्बस्तस्य वृद्धिः-वर्धनं, न प्रजासु गुल्म:-रुग्विशेषस्तस्य वृद्धिः । तथा मत्स्येषु गलग्रह:-गले ग्रहः-ग्रहणं गलग्रह: महान् मत्स्योऽल्पीयांसं मत्स्यं गले गृह्णातीति, बडिशप्रयोगेण वा गलग्रहो, न प्रजासु 'गरग्रहः' गरस्य-विषस्य ग्रह:-ग्रहणं । न कश्चिद् भक्षणार्थं गरं गृह्णातीति भावः । श्लेषे रलयोरेकत्वश्रवणात् । यद्वा, गलग्रह:-गलहस्तः । तथा पर्वतवनभूमिषु-अदिनिकुञ्जेषु गण्डकोत्थानं गण्डकाः-खड्गिनस्तेषामुत्थानं-उदयप्राप्तिः, न प्रजासु गण्डकाः-हस्वस्फोटकास्तेषामुत्थानं-उद्भवः । "हस्वा गण्डा गण्डकाः" [ ] "अल्पाख्यायां" [पा०सू० ५।४।१३६] कन् । यद्वा, गण्डकोऽन्तरायस्तस्योत्थानम् । यदनेकार्थ:-गण्डको विघ्ने विद्यायां संख्यावच्छेदखङ्गिषु" [३।३४] "विद्येति विद्याविशेषः, संख्येति संख्याभेदश्चत्वारः, कपईकाः, अवच्छेदः पर्वतेति" तव॒तौ ।
१-१. 'शब्दतन्मात्रादीनि' आरभ्य 'स्पर्शविशेष:' पाठो नोपलभ्यते अनू० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org