________________
दमयन्ती-कथा-चम्पू: मर्यादा-इदं कर्त्तव्यं, इदं न कर्त्तव्यमित्येवंरूपा व्यवस्था तस्या ये उपदेशा:-कथनानि तेषां आचार्यभवनं-अध्यापकगृहम्, यथाऽऽचार्यगृहे साधुमर्यादोपदेशाः प्राप्यन्ते तथा ऽत्रापि ।
यस्मिन्नार्यावर्त्तदेशे ईदृग्विधाः प्रजाः-लोकाः सन्तीति गम्यते । किम्भूता ? अनवरतं-अजस्रं धर्मकर्मोपदेशेन-पुण्यकृत्यप्ररूपणेन शान्तः-ध्वस्तः समस्तो व्याधिव्यतिकरो-रोगसम्पर्को यासां ताः । तथा पुरुषायुषं वर्षाणामष्टोत्तरशतं जीवन्तीत्येवं शीलाः पुरुषायुषजीविन्यः, यद्देशे नाकाले लोका म्रियन्त इत्यर्थः । पुरुषायुषमिति "अचतुर-" [पा० सू० ५।४।७७] इत्यादिना अजन्तो निपात्यते । तथा सकलानि यानि संसारसुखानिवैषयिकसौख्यानि तानि भजन्ते यास्ताः सकलसंसारसुखभाजः । धर्मकर्मणेति पाठे यस्मिन्देशे धर्मकर्मणा नीरुजो बह्वायुषः सुखिन्यः प्रजाः । धर्मकर्मणेति व्यस्तमेव त्रिभिः प्रजाविशेषणैः सम्बद्धं स्यात् ।
अथ सर्वसुखभाक्तं प्रजानां दर्शयन्नाह
तथाहि-कुष्ठयोगो' गान्धिकापणेषु, स्फोटप्रवादो वैयाकरणेषु, सन्निपातस्तालेषु, ग्रहसंक्रान्तिोतिःशास्त्रेषु, भूतविकारवादः सांख्येषु, क्षयस्तिथिषु, गुल्मवृद्धिर्वनभूमिषु, गलग्रहो मत्स्येषु, गण्डकोत्थानं पर्वतवनभूमिषु', शूलसम्बन्धश्चण्डिकायतनेषु दृश्यते न प्रजासु । ___यत्र चतुरगोपशोभिताः सङ्ग्रामा इव ग्रामाः, तुङ्गसकलभवनाः सर्वत्र नगा इव नगरप्रदेशाः, सदाचरणमण्डनानि नूपुराणीव पुराणि, सदानभोगाः प्रभञ्जना इव जनाः, प्रियालपनसाराणि यौवनानीव वनानि, विटपिहिताश्चेटिका इव वाटिकाः, निर्वृतिस्थानानि सुकलत्राणीवेक्षुक्षेत्रसत्त्राणि', जलाविलक्षणाः पशुपुरुषा इवाप्रमाणास्तडागभागाः, कुपितकपिकुलाकुलित लिङ्केश्वरकिङ्करा इव भग्नकुम्भकर्णघनस्वापाः कूपाः, पीवरोधसः सरित इव गावः, सतीव्रतापदोषा: सूर्यद्युतय इव कुलस्त्रियः ।
यत्र च मनोहारिसारसद्वन्द्वास्तत्पुरुषेण द्विगुना चाधिष्ठिताः कादम्बरीगद्यबन्धा इव दृश्यमानबहुव्रीहयः केदाराः । किं बहुना
तथाहीति । इदमिदमेष्वेव वर्त्तते न प्रजास्विति वक्तुं परिसंख्यामाह-'कुष्ठेति' कुष्ठंऔषधविशेषस्तस्य योगः सम्बन्धो गान्धिकापणेषु-गान्धिकहहेषु दृश्यते, न प्रजासु, कुष्ठस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org