________________
प्रथम उच्छ्वासः
२३
पयोधरयोः स्पर्श इव- आश्लेष इव । सोऽपि सर्वविषयाणां सकलेन्द्रियार्थानां मुख्यो भवति। तथा अदृष्टप्रकृतिनिपातोपसर्गलोपवर्णविकारः, निपातः - स्वस्वपदात्पतनं, उपसर्गःधनापहारादिरुपद्रवः, लोपः - देवदायब्रह्मदायापालनं, वर्णविकार:- बलाद् ब्राह्मणस्य शूद्रीकरणं, शूद्रस्य च ब्राह्मणीकरणमित्यादिरूपा चातुर्वर्ण्याव्यवस्था, पश्चात् द्वन्द्वे निपातोपसर्ग-लोपवर्णविकाराः, न दृष्टाः प्रकृतीनां प्रजानां निपातोपसर्गलोपवर्णविकारा, यत्र सः, क इव ? अनधीतव्याकरण इव-न अधीतं पठितं व्याकरणं - शब्दशास्त्रं येन सः । सोऽपि न दृष्टा - न ज्ञाताः प्रकृतयः धातवो - भ्वादयः, निपाता:- चादयः, उपसर्गाः-प्रादयः, लोप:-अकारादेर्नाशः, वर्णविकार:-अक्षरविकृतिश्च येन सः । पुनः किम्भूतो देश: ? पशुपतिजटाबन्ध इव-शम्भुजटाजूट इव, गङ्गया - मन्दाकिन्या पुण्यसलिलै :- पवित्राम्भोभिः प्लावित: - प्रक्षालितः । किम्भूतया गङ्गया ? विकसितानि - प्रफुल्लानि यानि कनककमलानि-स्वर्णाम्भोजानि कुवलयानि च - नीलोत्पलानि तेभ्य उच्छलितः - उद्भूतो यो रज:पुञ्ज:-परागसमूहस्तेन पिञ्जरिता:- पिङ्गलीकृता ये हंसास्त एव अवतंसः - शेखरो यस्याः सा तया तच्छिरोवस्थितत्वेन तेषां शेखरायमाणत्वात् । पुनः किम्भूतया ? प्रचुरा:- भूयांसश्चलन्तो ये चकोराश्च- चलचञ्चवः, चक्रवाकाश्च रथाङ्गाः, कारण्डवाश्च- - मुरलास्तेषां या मण्डलीश्रेणिस्तया मण्डितं - भूषितं तीरं तटं यस्याः सा तया । तथा 'भगीरथभूपालस्यजह्नुसूनुनृपस्य कीर्तेः पताका इव या सा तया । तेनैव स्ववंश्यानां सगरपुत्राणां नरकादुद्धर्तुं सुरसरित्प्रवाहस्य आनीतत्वादत एव तन्नाम्ना भागीरथीति प्रसिद्धिर्गङ्गायाः । पताकोपमानं चोज्ज्वल्यसाम्यात् । तथा स्वर्गगमनाय सोपानवीथीयमाना:- आरोहणमार्ग इव आचरमाणा रंगन्तः-विलसन्तस्तरङ्गः - वीचयो यस्याः सा तया । तत्स्नानात् स्वर्गावाप्तेः स्वर्गच्छतां तद्वीचयो मन्ये सोपानवीथीव । शम्भुकपर्दोऽपीदृग्विधया गङ्गया धौतो भवति । तथा चन्द्रभागया नद्या अलङ्कृत एकदेशः - विषयांशो यस्य स चन्द्रभागालङ्कृतैकदेशः । पशुपतिजटाबन्धोऽपि चन्द्रस्य भाग:- अंशस्तेनालङ्कृतः - भूषित एकदेशो यस्य स ईग्विध भवति । तथा सकलसंसारचक्रस्य- समस्तसंसृतिमण्डलस्य सार:- प्रधानम् । तथा पुण्यकारिणां-पुण्यकर्तॄणां शरणाय साधुः शरण्यः, एतद्देशाधारेण धमिणो धर्मं कुर्वन्तीति । तथा रमणीयस्य-मनोहरस्य भावो रामणीयकम् । “योपधाद्गुरूपोत्तमाद् वुञ् " [पा० सू० ५|१|१३२] । तदेव कदलीवनं - रम्भाखण्डं तस्य आराम: - कृत्रिमवनम् । यथा आ रम्भावनं तिष्ठति तथाऽत्रापि चारुत्वं तिष्ठतीत्यर्थः । तथा धर्मस्य - पुण्यस्य धाम -गृहम् । तथा सम्पदां ऋद्धीनां आस्पदं - स्थानम् । तथा श्रेयसां - कल्याणानां आश्रयः- आधारः । तथा साधवः-भव्याः ये व्यवहार:- प्रवर्तनानि तेषामाकरः - रवानिः । तथा आर्या रम्या या १. भागीरथ अनू० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org