________________
दमयन्ती-कथा-चम्पू: अस्ति समस्तविश्वम्भराभोग'भास्वल्ललामलीलायमानः, समानः सेव्यतया नाकलोकस्य, ग्राम्यकविकथाबन्धः इव नीरसस्यमनोहारी३, भीम इव भारतालङ्कारभूतः, कान्ताकुचमण्डलस्पर्श इवाग्रणीः सर्व-विषयाणां, अनधीतव्याकरण इवादृष्टप्रकृतिनिपातोपसर्गलोपवर्णविकारः, पशुपतिजटाबन्ध' इव विकसितकनककमलकुवलयोच्छलितरजःपुञ्जपिञ्जरितहंसावतंसया५ प्रचुरचलच्चकोरचक्रवाककारण्डवमण्डलीमण्डिततीरया भगीरथभूपालकीर्तिपताकया स्वर्गगमनसोपानवीथीयमानरङ्गत्तरङ्गया गङ्गया पुण्यसलिलैः प्लावितश्चन्द्रभागालङ्कृतैकदेशश्च, सारः सकलसंसारचक्रस्य , शरण्यः पुण्यकारिणाम, आरामो रामणीयककदलीवनस्य, धाम धर्मस्य, आस्पदं सम्पदाम्, आश्रयः श्रेयसाम्, आकरः साधुव्यवहाराणाम् , आचार्यभवनमार्यमर्यादोपदेशानामार्यावर्तो नाम देशः ।
यस्मिन्ननवरतधर्मकर्मोपदेशशान्त समस्तव्याधि°°व्यतिकराः पुरुषायुषजीविन्यः सकलसंसारसुखभाजः प्रजाः ।
अस्तीति । आर्यावर्तो नाम-प्रसिद्धो देशोऽस्ति । "नाम प्रकाशकुत्सयोः । सम्भाव्याभ्युपगमयोरलीके विस्मये अधि" इत्यनेकार्थः [परि० ४६-४७] । “हिमवद्विन्ध्ययोर्मध्यं यत् प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च आर्यावर्त्तः स उच्यते ॥" [ ] । किम्भूतो देशः ? समस्ता या विश्वम्भरा-भूस्तस्या य आभोगः-परीणाहस्तत्र अभास्वल्ललामलीलावान् भास्वल्ललामलीलावान् भवन् भास्वल्ललामलीलायमानःभास्वत्तिलकशोभायमानो यः स समस्तविश्वम्भराभोगभास्वल्ललामलीलायमानः, सर्वपृथिव्यां मुख्यभूत इत्यर्थः । लीलायमान इत्यत्र लीलाशब्दात् “तद्वति वर्तमानादायिः" [ ]। तथा नाकलोकस्य-स्वर्गलोकस्य सेव्यतया-आश्रयणीयतया समानः-समः । यथा नाकलोकः सेव्यते तथाऽयमपि सेव्य इत्यर्थः । तथा नीरसस्यमनोहारी नीरेण-जलेन सस्येन च धान्येन च मनांसि-निवासिजनचेतांसि हरति-वशीकरोतीत्येवंशीलः । क इव ? ग्राम्य:ग्रामीणो यः कविस्तस्य यः कथाबन्धः स इव । सोऽपि नीरसस्य-अरसिकस्य मनोहरो, न तु रसिकस्य । तथा भारतालङ्कारभूतः भारतं-भरतक्षेत्रं तस्य अलङ्कारभूतः-मण्डनोपमः । क इव ? भीम इव, सोऽपि भारतस्य-व्यासोक्तशास्त्रस्यालङ्कारभूतः । “भूतं सत्योपमानयोः। प्राप्तेऽतीते पिशाचादौ पृथ्व्यादौ जन्तुयुक्तयोः" इत्यनेकार्थः [२।१८६-१८७] । तथा सर्वविषयाणां-समस्तदेशानामग्रणी:-मुख्यः, क इव ? कान्तानां कुच-मण्डलयो:
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org