SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ प्रथम उच्छ्वासः सङ्गता- उचिता, औचित्यं हि रसस्य परमरहस्यम् । तदुक्तम् “अनौचित्यादृतेनान्यद्रसभङ्गस्य कारणम् । प्रसिद्धौचित्यबन्धो हि रसस्योपनिषत्परा ॥" [ पुनः किम्भूता ? रम्या - भङ्गश्लेषोक्तिभिर्मनोहरा । कथा केव ? नन्दनोद्यानस्यनन्दनवनस्य माला-पंक्ति: सेव । यथा नन्दनोद्यानमाला स्वस्थैः १ - स्वः - स्वर्गे तिष्ठन्तीति स्व: स्थास्तैः स्वर्गवासिभिरालोक्यते - वीक्ष्यते । किम्भूता नन्दनोद्यानमाला ? सुराणां सार्थो वृन्दं तेन सङ्गता-कृतसङ्गा, तथा रमयतीति रम्या - सुन्दरा, "कृत्यल्युटो बहुलम् " [पा० सू० ३|३|११३] इति कर्त्तर्य्यचो यच् । तथा मेरुः - सुरगिरिः स एव चिरं बहुकालमाश्रयःआधारो यस्याः सा मेरुचिराश्रया, तत्रैव तस्याः सद्भावात् । स्वस्थैरिति पूर्वपक्षे, "अघोषस्थेषु शषसेषु वा लोपम्" [ ] इति विसर्गलोपः ||२४|| अथ कविः सोत्कर्षं स्वकीयग्रन्थाभिधानमभिदधाति उदात्तनायकोपेता गुणवद्वृत्तमुक्तका । चम्पूच हारयष्टिश्च केन न क्रियते हृदि ॥ २५ ॥ उदात्तेति । ईदृग्विधा च चम्पू:- गद्यपद्यमयीकथा, हारयष्टिश्च - मुक्ताहारलता केन सकर्णेन हृदि-चित्ते वक्षसि च न क्रियते न ध्रियते ? | किम्भूता चम्पू: ? उदात्त:-महात्मा नायकः-स्वामी प्रस्तावात् नलस्तेन उपेता - सहिता, तस्यात्र स्तव्यत्वेन निबद्धत्वात् । पुनः किम्भूता ? गुणवत् - ओजः प्रसादादिगुणयुक्तं यत् वृत्तं - छन्दसा बद्धं, अबद्धं तु मुक्तकं गद्यं, ततो द्वन्द्वस्ते यस्यां सा गुणवद्वृत्तमुक्तका । किम्भूता हारयष्टिः ? उदात्त:- महार्थो नायकः हारमध्यरत्नं यस्यां सा, तथा गुणः - तन्तुः स विद्यते यासु ता गुणवत्यः ईदृग्विधा वृत्तमुक्तावर्तुलमौक्तिकानि यस्यां सा गुणवद्वृत्तमुक्तका । " शेषाद्विभाषा" [पा० सू० ५|४|१५४] इति कप्रत्यये " अन्यतरस्यां " [ ] इति वा हस्व: । इकारस्तु न शंकनीयस्तस्य पाक्षिकत्वात् । चम्पूरिति "चप सान्त्वने, [पा० धा० ४२६ ] दृभि चपे: स्वरान्नोंतश्च" ] इति चपेरूप्रत्यय:, चम्पूः कथाविशेष इत्युणादिवृत्तौ । विशेषत्वं तु गद्यपद्यमयत्वेन हरचरणेति पदाङ्कितोच्छ्वासान्तत्त्वेन च बोध्यम् । यदनेकार्थवृत्तिः "गद्यपद्यमयी चम्पू: साङ्कोच्छ्वासा च वर्ण्यते" [ ] इति ॥ २५ ॥ अथ प्रकृतनलभूपतिकथां तद्देशनगर्यादिकथनद्वारेण प्रस्तावयन्नाह - १. स्वः स्थैः । अनू० Jain Education International २१ For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy