________________
दमयन्ती-कथा-चम्पू: समुद्रस्तथा भङ्गश्लेषकथाबन्धोऽपि दुष्करः, इत्यौपम्यावस्तुसम्बन्धः । “अभवद्वस्तुसम्बन्ध उपमा परिकल्पकः" [काव्यप्रकाश १०।९७] ॥२२॥ अथ खलानां निन्दाभिधानपुरस्सरं स्वकृतकाव्यस्य बह्वायाससाध्यत्वमाह
उत्फुल्लगल्लैरालापा: क्रियन्ते दुर्मुखैः सुखम् । जानाति हि पुनः सम्यक्कविरेव कवेः श्रमम् ॥२३॥
उत्फुल्लेति । दुष्टमुखैः-दुर्मुखै मुखरैः, उत्फुल्लौ-दुष्टकथनाय विकसितौ उत्कटौ वा, गल्लौ-गण्डौ येषां ते उत्फुल्लगल्लास्तैस्तथाविधैः सद्भिः सुखं लीलया आलापाः किमेतत् कृतं काव्यं स्तूयते ? त एव भङ्गश्लेषाद् या अन्यत्राऽपि दृश्यन्तेऽतः परगृहसर्वस्वमेतदित्येवंरूपाणि निन्दाकराणि वाक्यानि क्रियन्ते । हि:-यस्मात् पुन:-विशेषेण कविरेवकाव्यकत्रैव कवेः श्रमं-चित्ताद्यायासं सम्यक्-साधुवृत्त्या जानाति, काव्यं कुर्वतः कवेर्यः श्रमः सम्पद्यते स तथाविधैरेव कविभिः परिच्छेत्तुं शक्यते, न तु दुर्जनैरिति भावः । "दुर्मुखो मुखरे नागराजे वाजिनि वानरे" [३।१११] इत्यनेकार्थः ।
उल्लापा इति पाठे काकुभाषितानि चस्तरीरूपाणि । अत्र गल्लशब्दो ग्राम्यस्तथा च काव्यप्रकाशकारः
"ताम्बूलभृतगल्लोऽयं भल्लं जल्पन्ति मानुषः ।
करोति खादनं पानं सदैव तु यथा तथा ॥ [का० उदा० २४५] "अत्र गल्लादयः शब्दाः ग्राम्या इति ।" [ ] परं ग्राम्योप्यत्र दुर्मुखाणामकवीनां ग्राम्याणां निन्दाभिधाने प्रयुक्तः समुचित एव । तेनात्र न दोषशङ्का ॥२३॥
अथ कविषु कथासमाप्त्यनन्तरकार्यस्वकीयविनयमाह-यद्वा, मोहहेतुं मनोऽस्थैर्य निषेधयन्नाह
संगता सुरसार्थेन रम्या मेरुचिराश्रया ।
नन्दनोद्यानमालेव स्वस्थैरालोक्यतां' कथा ॥२४॥ संगतेति । रुचिर:-रम्य आश्रयः-नलोपाख्यानलक्षणो यस्यां सा रुचिराश्रया नलसम्बन्धिनी मे-मम कथा स्वस्थैः-अव्यग्रैरालोक्यतां-विमृश्यताम् । स्वस्थे हि चित्ते बुद्धयः सम्भवन्तीति । किम्भूता कथा ? शोभनो रसः शृङ्गारादिर्यत्र, तथोक्तेन अर्थेन
१. यस्याः
अनू० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org