________________
दमयन्ती-कथा-चम्पू:
शौण्डस्य शाण्डिल्यनाम्नो महर्षवंश:१ ।
श्रूयन्ते च तत्र श्रवणोचिताश्चन्दनपल्लवा इवः केचिदनूचानाः शुचयः सत्यवाचो५ विरञ्चिवर्चसोऽर्चनीयाचारा ब्रह्मविदो ब्राह्मणाः । पुण्यजनाश्च न च ये लङ्कापुरुषाः, ससूत्राश्च न च ये लम्पटाः, प्रसिद्धाश्च न च ये लम्पाकाः, कामवर्षाश्च न च ये लङ्गनाः सन्मार्गस्य, नववयसोऽपि न च ये लम्बालकाः, महाभारतिकाश्च न च ये रङ्गोपजीविनः, सेविताऽप्सरसोऽपि न च ये रम्भयान्विताः । किम्बहुना
___ अस्ति समस्तेत्यादि । शाण्डिल्यनाम्नो महर्षे वंश:-अन्वयोऽस्ति-विद्यते इत्यन्वयः । किम्भूतस्य महर्षेः ? समस्ता ये मुनयः-वाचंयमाः मनुजानां-मनुष्याणां यद् वृन्दं-कदम्बकं वृन्दारका:-देवास्ततो द्वन्द्वे समस्तमुनिमनुजवृन्दवृन्दारकास्तेषां वन्दनीयेनमस्करणीये पादारविन्दे-चरणाब्जे यस्य स तथा तस्य । तथा भगवतः-समग्रैश्वर्यादिगुणयुक्तस्य विधे:-ब्रह्मणो विश्वव्यापी-जगद्व्यापनशीलो यो व्यापार:-करणप्रयत्नस्तस्य यत्पारवश्यं-पारतन्त्र्यं तस्माद् विश्वव्यापिव्यापारपारवश्यात्, संसारचक्रे - भूमण्डले अवतीर्णस्य-प्राप्तजन्मनः । तथा क्रतुक्रियाणां-यज्ञकर्माणां यत् काण्ड-कलापस्तेन शौण्ड:विख्यातस्तस्य क्रतुक्रिया-काण्डशौण्डस्य । यज्ञश्च लोकानां शान्तिकृ दसौ च यज्ञक्रियाकलापप्रसक्तस्ततोऽयं प्रजाशान्त्यै प्रजासृजा सृष्ट इति भावः । “काण्डं नालेऽधमे वर्गे" इत्यनेकार्थः [२।११३] । "शौण्डो विख्यातमत्तयोः" इत्यनेकार्थः [२।१३०] ।
तत्र-शाण्डिल्यनाम्नो* महर्षेर्वशे केचित् अनुचाना:-श्रोत्रियाः साङ्गवेदशास्त्राध्येतारो ब्राह्मणा:-ब्रह्ममुखोद्भवाः श्रूयन्ते । किम्भूताः ? श्रवणे-आकर्णने उचिता:-योग्याः पुण्यरूपत्वात्तेषां नामापि श्रोतव्यमिति भावः । क इव ? चन्दनपल्लवा इव । तेऽपि श्रवणोचिता:-कर्णयोरवतंसीकरणाय योग्याः । पुनः किम्भूताः ? शुचयः-जन्मकर्मादिभिः पवित्राः, तथा सत्यं-अवितथं वचो येषां ते सत्यवचसः-सूनृतभाषिणः तथा विरिञ्चे:ब्रह्मणो वर्चः-तेजो येषु ते विरिञ्चिवर्चसः, ब्रह्मणः समुद्भूतत्वात् । “वर्चस्तु तेजसि । ग्रथे रूपे" इत्यनेकार्थः [२।१०३] वर्चस् शब्दस्य लोकानुगृहीतत्वाच्छिवलिङ्गादिवन्नाश्लीलत्वम् । पुनः किम्भूताः ? अर्चनीयः-अभ्यर्च्य आचारः-अनुष्ठानं येषां ते अर्चनीयाचाराः । पुनः ब्रह्म-अध्यात्म विदन्तीति ब्रह्मविदः । यदनेकार्थ:-"ब्रह्मा तु
★ शाण्डिल्यस्यापत्यं शाण्डिल्यः, "गर्गादित्वाद् घञ्" "शाण्डिल्ये साधुर्वा" इत्यनेकार्थवृत्तौ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org