________________
प्रथम उछासः
१५
शंक्याह-अथवेति उपायस्मरणगर्भे, पक्षान्तरे सूरयः-विद्वांसः सर्वं सहन्ते इति सर्वंसहाः तस्मादस्मादृशामपि गिरः सहिष्यन्ते, अस्माद् गिरोऽपि कर्णहृदयेऽवकाशं लप्स्यन्त इत्यर्थः । औद्धत्य-परिहारोऽयं । सर्वंसहा इति पू: "सर्वयोर्दारिसहोः" [ ] इति सर्वशब्दे सहे: खच्, खित्वान्मुमागमः ॥१५॥ भङ्गश्लेषमुक्तिविशेषणं संवृण्वन्नाह
वाचः काठिन्यमायान्ति भङ्गश्लेषविशेषतः ।।
नोद्वेगस्तत्र कर्तव्यो यस्मान्नैको रसः कवेः ॥१६॥ वाच इति । वाचः-गिरो भङ्गश्लेषविशेषतः-भङ्गश्लेषातिशयेन काठिन्यं-कार्कश्यं आयान्ति-प्राप्नुवन्ति । ततोऽन्तरान्तरा निबध्यमाने, तत्र भङ्गश्लेषे नोद्वेगः कर्तव्यःनोद्विजितव्यम् । यस्माद्धेतोः कवे:-काव्यकर्तुः नैको रस:-नैका रुचि: प्रसत्तिलक्षणाव्युत्पत्तिलक्षणाप्यस्ति ॥१६॥
ननु प्रसत्तिमार्गेण कोमलमेव काव्यं निबध्यतां किमितरेण व्युत्पत्तिमार्गेण भङ्गश्लेषकृतकाठिन्येनोद्वेगहेतुना ? इत्याह
काव्यस्याम्रफलस्येव कोमलस्येतरस्य च । बन्धच्छायाविशेषेण रसोऽप्यन्यादृशो भवेत् ॥१७॥
काव्यस्येति । कोमलस्य-प्रसन्नस्य इतरस्य-व्युत्पन्नस्य च काव्यस्य बन्धच्छायाविशेषेण-रचनाचारुत्वेन रसोऽपि-शृङ्गारादिरपि अनन्यरूपोप्यन्यादृशोऽन्यरूपो व्युत्पत्तिचर्चया सोत्कर्षः स्यात् । इतरभाजनस्थक्षीराद्-रत्नभाजनस्थक्षीरवत् । अपि: संभावने । कस्येव ? आम्रफलस्येव, यथा आम्रफलस्य कोमलस्य-अपरिणतस्य इतरस्य च-परिणतस्य बन्धस्यवृत्तस्य छायायाश्च-नीलपीतादिरूपाया विशेषेण यावद् रसः स्वादोऽप्यन्यादृक् स्यात् । आस्ताम् आकारवैसदृश्यं । आकारवैसदृश्यं तु बन्धच्छायाविशेषेण भवत्येवेत्यर्थः बध्यते अनेनेति कृत्वा बन्धो वृत्तं । यद्वा फलारम्भकरसकणिकारूपो बन्धः । काव्यपक्षे बन्धःरचना ॥१७||
अथ ग्रन्थकृत्स्वान्वयवर्णनामाह
अस्ति समस्तमुनिमनुजवृन्दवृन्दारक वन्दनीयपादारविन्दस्य भगवतो विधेर्विश्वव्यापिव्यापारपारवश्यादवतीर्णस्य संसारचक्रे क्रतुक्रियाकाण्ड
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org