SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १४ दमयन्ती-कथा-चम्पू: शश्वद्बाणद्वितीयेन नमदाकारधारिणा । धनुषेव गुणाढयेन निःशेषो रञ्जितो जनः ॥१४॥ शश्वदिति । गुणाढ्येन-बृहत्कथाकारेण निःशेषः-सर्वोऽपि जनो रञ्जितःआवजितः प्रमोदं प्रापितः । किम्भूतेन ? बाणः कविर्द्वितीयो यस्य स तेन । पूर्वं गुणाढ्येन पश्चाद् द्वितीयेन बाणेन चेति भावः । पुनः किम्भूतेन ? शश्वत्-निरन्तरं न मदाकारंस्तब्धतदिरूपं धरतीत्येवं शीलो मदाकारधारी तेन मदाकारधारिणा किन्त्वगर्वेण । "अनित्यः समासविधिः" इति वचनादत्र नत्रा न समासः । केनेव ? धनुषेव, यथा धनुषा बाणः-शरो द्वितीयो यस्य तत्तेन आकृष्टबाणेन शश्वद् अनिशं अरं-अत्यर्थं निःशेषः-सकलो जनः प्रतिपक्षलोको जित:२ । किम्भूतेन ? गुण:-ज्या तेन आढ्येन-समृद्धेन आरोपितप्रत्यञ्चेनेत्यर्थः । तथा नमन् य आकारस्तद्धारिणा तद्विभ्रता, अन्यथा बाणमुक्तेः ॥१४॥ इदानीं कविवर्णनं संक्षिपन्नाह इत्थं काव्यकथाकथानकरसैरेषां कवीनाममी, विद्वांसः परिपूर्णकर्णहृदयाः कुम्भाः पयोभिर्यथा । वाचो वाच्यविवेकविक्लवधियामीग्विधा मादृशां, लप्स्यन्ते क्व किलावकाशमथवा सर्वंसहाः सूरयः ॥१५॥ इत्थमिति । इत्थं-उक्तप्रकारेण एषां-वाल्मीकिप्रभृतीनां कवीनां काव्यं-सर्गबन्धः विचित्रविस्तीर्णवस्तुरसग्रथिता वृत्तोत्पाद्या वा कथा । महापुरुषप्रतिबद्धमुपदेशरूपं संक्षिप्तवृत्तग्रथितं कथानकं तेषां ये रसाः-शृङ्गारादयस्तैः काव्यकथानकरसैः, अमी-ऐदंयुगीना विद्वांसः कर्णौ च हृदयञ्च कर्णहृदयम् । “द्वन्द्वश्च प्राणितूर्यसेनाङ्गानां" [पा० सू० २।४।२] इति द्वन्द्वैकवद्भावः । परिपूर्ण-सामस्त्येनाभितं कर्णहृदयं येषां ते परिपूर्णकर्णहृदयाः सन्ति । अतो वाच्यस्यार्थस्य विवेके-सदसव्यक्तौ विक्लवाः अधीरा धी:-बुद्धिर्येषां ते तेषां, अभिधेयविरचनविधुरशेमुषीणां मादृशां-अतत्त्वज्ञानां ईदृशाश्चेतश्चमत्कारकरणापटवो वाच:-वाण्यः किल क्वावकाशं लप्स्यन्ते-प्राप्स्यन्ति स्थानाभावात् । क्व किलेत्यसम्भावने । गिरां ह्यवकाशः कर्णयोर्हदये वा, तच्च द्वयमाद्यकविवचोभिरेवोभितमतः क्वावकाशः । कैः के इव? पयोभिः कुम्भा इव, यता पयोभिः परिपूर्णकण्ठोदराः कुम्भा नेतरस्य पानीयस्याव-काशं लभन्ते । इवार्थे यथाशब्दः । तर्हि किं कथाग्रथनप्रयत्नेनेत्या १. सर्वो अनू० । २. जित: पराभूतः अनू० । ३. ईदृग्विधाः अनू० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy