SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ प्रथम उद्दासः किञ्च व्यासः क्षमाभृतां श्रेष्ठो वन्द्यः स हिमवानिव । सृष्टा गौरीदृशी येन भवे विस्तारि भारता ॥ १२ ॥ व्यास इति । स व्यास:- कृष्णद्वैपायनाख्यो नमस्कार्य: । स इति कः ? येन कविना ईदृशी-सर्वत्रख्याता भवे- संसारे गौ:- वाक् सृष्टा - निर्मिता । किम्भूता ? विस्तारि - विस्तरणशीलं भारतं यस्यां सा विस्तारिभारता । किम्भूतो व्यास: ? क्षमाभृतां - क्षमां बिभ्रतीति क्षमाभृतस्तेषां क्षान्तानां मध्ये श्रेष्ठ: - अतिशयेन प्रशस्यः । क इव ? हिमवानिव, यथा हिमवान् वन्द्यते गौरीपितृत्वात् । स च कीदृश: ? क्षमाभृतां - भूधराणां मध्ये श्रेष्ठःश्रेयान्, तथा येन हिमवता भवे - शिवे रता - अनुरक्ता ईदृशी विश्वविख्याता गौरी - पार्वती निर्मिता । कीदृशी ? विस्तारिणी भा - दीप्तिर्यस्याः सा विस्तारिभा । भरतान्-भरतवंशोद्भवान् युधिष्ठिरादीनधिकृत्य कृतं शास्त्रं भारतं सपादलक्षप्रमाणम् । “क्षमा शान्तिः २ क्षोणी च " [अने० २/३२१] “भवः सत्ताप्तिजन्मसु । रुद्रे श्रेयसि संसारे" इत्यनेकार्थः [२/५४५] । "गौरुदके दृशि । स्वर्गे दिशि पशौ रश्मौ, वज्रे भूमाविषौ गिरि" इत्यनेकार्थः [१/६]॥१२॥ कर्णान्तविभ्रमभ्रान्तकृष्णार्जुनविलोचना । करोति कस्य नाह्लादं कथा कान्तेव भारती ॥१३॥ Jain Education International १३ कर्णान्तेति । भारती - भरतान्वयसम्भूतयुधिष्ठिरादिवृत्तसम्बद्धा कथा कस्य न आह्लादं-आनन्दं करोति ? अपितु सर्वस्य करोतीत्यर्थः । किम्भूता भारतीकथा ? कर्णस्यराधेयस्य अन्ते - विनाशे सति विभ्रमेण - विस्मयेन वे:-पक्षिणो गरुडस्य भ्रमेण वा अतिलाघवेन भ्रान्ता-विचरितुं प्रवृत्ताः कृष्णार्जुनविलोचना - वासुदेवपार्थधृतराष्ट्रा यस्यां सा कर्णान्तविभ्रमभ्रान्तकृष्णार्जुनविलोचना तेषां तत्र प्रबन्धेनाख्यानात् । केव ? कान्तेवसुन्दरीव, यथा कान्ता सर्वस्याऽऽह्लादं करोति । किम्भूता ? कर्णान्ते - श्रवणपर्यन्ते यो विभ्रमः-विलासस्तेन भ्रान्ते साचिविलोकनाय स्फुरिते कृष्णार्जुने - श्यामवलक्षे विलोचने- नेत्रे यस्याः सा तथाविधा । यद्वा, कर्णान्ते - श्रवणपर्यन्तगामिनी विभ्रमे भ्रान्ते कृष्णार्जुने च विलोचने यस्याः भरतानधिकृत्य कृता भारती । " अधिकृत्य कृते " ग्रन्थे" [पा० सू० ४।३।८७] इत्यण् ||१३|| १. वन्द्यः-नमस्कार्यः अनू० । २. क्षान्तिः अनू० । ३. सर्वस्यापि अनू० । ४. विभ्रमभान्ते अनू० ।.५. 'कृते' नास्ति अनू० । For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy