SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ प्रथम उच्छ्वास: तपसि ज्ञाने वेदेऽध्यात्मे द्विजे विधौ । ऋत्विग्योगभिदोश्चेति ।" [२।२७९] अथ तेषामेव वर्णनप्रक्रमे विरोधमुखेन तान् स्तुवन्नाह किम्भूतास्ते ? पुण्या:- पवित्रा जना:- लोकाः पुण्यजनाः, अलं- अत्यर्थं न च ये कापुरुषा:-कुत्सितपुरुषाः, सत्पुरुषा इत्यर्थः । न चेति सामुदायिको निषेधार्थो निपातः । तथा सह सूत्रेण - उपवीतेन वेदपाठेन वा वर्तन्त इति ससूत्राः, न च ये लम्पटा:-लालसाः, अतितृष्णारहिता इत्यर्थः । " लम्पटं लालसं विदुः " [ २।३५३ ] इति हलायुधः । तथा प्रसिद्धाश्च-लोकविख्याताः, न च ये लम्पाका :- लम्पटाः । “लम्पाको लम्पटे देशे" इत्यनेकार्थः [३।९०] । तथा कामं - अभिलषितं वर्षन्ति - ददतीति कामवर्षा - ईप्सितदायिनः, न च ये सन्मार्गस्य लङ्घनाः, लङ्घयन्ति - अतिक्रामन्तीति लङ्घनाः, सन्मार्गप्रवर्तका इत्यर्थः । तथा नवं-तारुण्यलक्षणं वयः - अवस्था येषां ते नववयसस्तथाविधा अपि न च ये लम्बा:दीर्घाः अलका:-कचा येषां ते लम्बालकाः, यायजूकत्वेन तेषामदीर्घा एव केशा भवन्ति । तथा भारतं-व्यासोक्तशास्त्रं व्याख्यानावसरे आहुरिति भारतिका, महान्तश्च ते भारतिकाश्चमहाभारतिकाः । आहेत्यर्थे प्रभूतादिभ्य उपसंख्यानम् [आहौ प्रभूतादिभ्यः, पा० वा० २७०] ठक् । तथाविधाश्च न च ये अरं - अत्यर्थं गोप:- नृपस्तेन जीवन्ति-वृत्तिं कुर्वन्तीति गोपजीविनः नृपदत्तप्रतिग्रहधनेनाजीविकां कुर्वते । नृपात् प्रतिग्रहो दोषाय । यदुक्तम्“यो राज्ञः प्रतिगृह्णाति लुब्धादुच्छास्त्रवर्तिनः । स याति नरकान् घोरान् स पुत्रपशुबान्धवः । " [ १७ ] तथा अप्प्रधानानि सरांसि अप्सरांसि सेवितानि अप्सरांसि यैस्ते सेविताप्सरसस्तथाविधा अपि न च ये अरं - अत्यर्थं भयान्विताः - समयाः । इति तेषां स्तुतिपक्षः । अथ विरोधो दर्श्यते-ये पुण्य नाः - राक्षसास्ते कथं न लङ्कोद्भवाः ? अपितु लङ्कोद्भवा एव ते स्युः । तथा ये सहसूत्रेण - तन्तुना विद्यन्त इति ससूत्रा: ते अलं- अत्यर्थं कथं न पटा:- वासांसि अपितु पटा एव, तन्मयत्वात् तेषां । तथा ये प्रकर्षेण सिद्धा: - अग्निसंस्कारेण निष्ठां प्राप्ताः पूपाद्यास्ते कथं अलं न पाका:- पच्यन्ते स्मेति पाकाः, "कर्मणि घञ् " । तथा ये कामेन - इच्छया वर्षन्ति - पानीयं क्षरन्ति ये ते कामवर्षास्ते कथं अलं- अत्यर्थं घना:- मेघा न भवन्ति । तथा ये नववयसस्ते कथं न अलम्बालकाःशिशवः । तथा ये भरतः - नाट्यभेदः शिल्पमेषामिति भारतिकाः, महान्तश्च ते भारतिकाश्च महाभारतिकास्ते कथं न रङ्गः - नृत्यभूमिस्तेन उपजीवन्तीति रङ्गोपजीविनः, नृत्यभूमौ नृत्यकरणेनैव तेषां वृत्तेः । तथा ये सेविता-मुक्तो अप्सरसः - देवांगना यैस्ते सेविताप्सरसस्ते कथं न रम्भयान्विताः - रम्भाख्याप्सरोन्विताः । अप्सरः शब्दो जातिवचनो जात्या च । For Personal & Private Use Only www.jainelibrary.org Jain Education International
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy