SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः तथा विविधे आश्लेषे-आलिङ्गने विचक्षणाः- दक्षाः । आलिङ्गनान्यमूनि द्वादश - स्पृष्टक १, विद्धक २, उद्धृष्ट ३, पीडन ४, लतावेष्टक ५, वृक्षाधिरूढ ६, तिलतण्डुल ७, क्षीरनीर ८, रूपगूढ ९, जघनोपश्लेष १०, स्तनालिङ्गन ११, ललाटिकाख्यानि ||४|| ८ किं कवेरिति । कंवेस्तेन काव्येन किम् ? धनुष्मतः- धानुष्कस्य तेन काण्डेन - शरेण किम् ? न किञ्चिदित्यर्थः । तेनेति केन ? यत्काव्यं काण्डं च परस्य - अन्यस्य श्रोतुः शत्रोश्च हृदये - मनसि वक्षसि च लग्नं चमत्कृतं मर्मप्रविष्टं च सत् शिर:- मूर्द्धानं न घूर्णयति-न भ्रमयति । शिरोघूर्णनं च हर्षव्यथयोराधिक्याद् भवति । "हृदयं मानसो रसो " [यतृ॰ ६८] इति विश्वप्रकाशः । अत्र च काव्यसम्बन्धात् काण्डसम्बन्धाच्च द्वयोरपि कविधनुष्मतोरुपहासपरतया प्रयोगः । अत्र किं शब्दः कुत्सार्थः । यदनेकार्थ :- "किं प्रश्ने कुत्सनेऽपि च ।” [ परि० ९२ ] काव्यं सर्गबन्ध: २ ॥५॥ अथ कुकविनिन्दाव्याजेन विपरीतगिरामग्राह्यत्वमाह अप्रगल्भाः पदन्यासे जननीरागहेतवः । सन्त्येके बहुलालापाः कवयो बालका इव ॥६॥ अप्रगल्भा इत्यादि । एके कवयः बालका इव सन्ति । किम्भूताः कवयः ? पदन्यासे-विभक्त्यन्तं पदं तेषां न्यासे - नैयत्यप्रयोगे अप्रगल्भाः - अनिपुणाः, तथा जनानां - लोकानां ३ नीरागः - रागाभावास्तत्र हेतवः - कारणं । न हि तादृशं काव्यं श्रुत्वा रसिकानां कश्चिच्चमत्कारः संजायते । तथा बहुलालापाः । एतेन निःसारवत् कृत्वोक्ति: ॥१॥ बालकपक्षे – पदन्यासे - चरणक्षेपे अप्रगल्भाः तथा जनन्या :- मातू रागहेतव:अनुरागकारणं, तथा बह्रीं लालां - निष्ठीवनजलं पिबन्तीति बहुलालापाः । यद्वा, बह्वयो लाला-अप्स्वरूपा येषु ते । "ऋक्पूरब्धूः पथामनक्षे" [पा० सू० ५ / ४/७४] इति अप्रत्ययः समासान्तः ॥२॥ अत्र गभीरार्थत्वात् कविभिरन्येप्यर्था उत्प्रेक्ष्यन्ते । तद्यथा एके कवय अबालकाः - जराजर्जरितदेहा इव तेऽपि अशक्तत्वात् पदन्यासे अप्रगल्भा एव । तथा जनानां-युवतिलोकानां नीरागं-रागाभावस्तत्र हेतवः । न हि जरद्देहे युवतिजनोऽनुरज्यत इति । तथा निद्रालस्याद्याधिक्येन अबहुल आलापो येषां ते तथाविधाः ||३|| १. 'मनसि' नास्ति अनू० । २. सर्गसम्बन्धः अनू० । ३. विद्वल्लोकानां अनू० । ४. बहुल आलापो येषां ते बहुलालापाः अनूः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy