________________
प्रथम उच्छ्वासः
""
इति तु विश्वप्रकाशः | अतः सारस्वतं नादेयं स्रोतो वन्दे । किम्भूतं ? वहत् - प्रसरत्, पुनः विबुधानां देवानां जलक्रीडादिभि: प्रमोदसदनं एतावता स्वर्गमार्गप्रवृत्तं । तदुक्तम् - "तथा रसायां वसुधायां तथा अन्तरे च' [ ] श्वभ्रे - अर्थात्पाताले प्रकर्षेणोढं इत्यसाधारणविशेषणसामर्थ्यात् त्रिपथगास्रोत इत्यर्थः । प्रौढमिति " प्रादूहोढ० " [ इत्यादिना वृद्धिः ॥३॥
प्रसन्ना इति । कस्यचिद् विशिष्टभाग्यस्य पुंसः - पुरुषस्य पुण्यैः - श्रेयोभिरीहग्गुणा मुखे वाचः - वाण्यः, गृहे च स्त्रियो भवन्ति - सम्पद्यन्ते संजायन्ते । कीदृशो ? वाचः ? नानेति पदं सर्वत्राऽऽकृष्यते । नाना - अनेकधा प्रसन्ना:- प्रसादगुणोपेताः सुबोधा इत्यर्थः । शब्दगुणः प्रसादः ओजो मिश्रितशैथिल्यात्मा, अर्थगुणस्तु प्रसादो वैमल्यं झगिति अवबोधगोचरत्वमिति यावत् । तथा चाह काव्यप्रकाशकार:
"श्रुतिमात्रेण शब्दानां येनार्थप्रत्ययो भवेत् ।
साधारणः समग्राणां स प्रसादो गुणः स्मृतः ॥ " [का० प्र० ८ / १०२]
इति । यद्वा, प्रसन्नाः - समासरहिताः । उक्तञ्च—–
“माधुर्यमभिवाञ्छन्तः प्रसादं च सुमेधसः ।
समासवन्ति भूयानि न पदानि प्रयुञ्जते ॥' [ भामहः काव्यलङ्कार २ / १]
अन्यत्राप्युक्तम्
७
“बहुसमासवतीवृतिरोजः, असमासवतीवृतिः प्रसादः”। [
इति । तथा नाना - अनेकधा कान्त्या-कान्तिगुणेन हर्तुं - मनोवशीकर्तुं शीलं यासां ताः कान्तिहारिण्यः । शब्दगुणः - कान्तिरौज्ज्वल्यं ग्राम्यादिभिरनतिप्रयुक्तमिति यावत् । अर्थगुणस्तु–कान्तिर्दीप्तरसत्वं, तथा नाना - अनेकप्रकारं शब्दगुणार्थगुणशब्दालङ्कारार्थालङ्काररूपं चतुर्धा श्लेषं विशेषेण वक्ष्यत इति, नानाश्लेषविचक्षणाः । शब्दगुणो मसृणत्वं श्लेषः, अर्थगुणस्तु श्लेषो घटना, शब्दकृतः शब्दालङ्कारश्लेषः, अर्थकृतस्तु अर्थालङ्कारश्लेषः । आह च काव्यप्रकाशकार:
श्लेषलक्षणम्-क्रमकौटिल्यानुल्वणत्वोपपत्तियोगरूपघटनात्मा श्लेषः ।
For Personal & Private Use Only
[का० प्र० सूत्र ८/१० ]
इति । स्त्रियस्तु प्रसन्ना:- तोषान्विताः, तथा कान्त्या वपुषो गुणविशेषेण मनोज्ञा:, १. कीदृश्यो अनू० । २. भूयांसि अनू० । ३. प्रयुक्तत्वमिति अनू० । ४. शब्दालङ्कारः अनू० | ५. अर्थालङ्कारः अनू० ।
Jain Education International
www.jainelibrary.org