SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ दमयन्ती-कथा-चम्पू: अथ यदवादि ‘तदनु च विजयन्ते वाग्विलासाः' इति तद्गुणानेव श्लोकत्रयेणाह अगाधान्तः परिस्पन्दं विबुधानन्दमन्दिरम् । वन्दे रसान्तरप्रौढं स्रोतः सारस्वतं वहत् ॥३॥ प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः । भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥४॥ किं कवेस्तेन काव्येन किं काण्डेन धनुष्मतः । परस्य हृदये लग्नं न घूर्णयति यच्छिरः ॥ ५॥ अगाधेति । अहं सरस्वती-भारती नदीविशेषश्च तस्या इदं सारस्वतं स्रोत:-प्रवाह वन्दे-नमस्कुर्वे स्तुवे वा । "वदि अभिवादनस्तुत्योः" [पा०धा०-११]% इति धात्वर्थनिर्देशात् । नदीपक्षे–प्रवाहस्य तद्धर्मत्वान्न किञ्चिद् दुर्घटं परम् । भारतीपक्षे–अन्यधर्मस्यान्यत्रारोपणलक्षणसमाधिना गिरां नैरन्तर्येऽपि स्रोतः शब्दो, यथा-"उन्मिमीलकमलं सरसीनां कैरवञ्च निमिमीलमुहूर्तात्" [ ] इत्यत्रोन्मीलननिमीलने नेत्रधर्मावपि कमलकुमुदयोरारोपिते । किं कुर्वत् ? वहत्, भारतीपक्षे-प्रवर्तमानं सदस्यानां पुरः सदोदीर्यमाणत्वात् । नदीपक्षे-प्रसरत् कुण्डादिभिरव्याहतत्वात् । पुनः किम्भूतं ? भारतीपक्षे-अगाधः-महार्थतया अलब्धमध्योऽन्तः-मध्ये प्रकरणान्मनसि परिस्पन्दश्चेतनश्चमत्कारी स्फूतिविशेषो यस्य तत् । नदीपक्षे-अगाधः-गम्भीरः, अन्तर्मध्ये परिसमन्तात् स्पन्दः-चलनं आवर्तविशेषो यस्य तत् । तथा गी:पक्षे-विबुधानां-देवानामानन्दमन्दिरंहर्षस्थानं विबुधानन्दमन्दिरं, भारतीविलासेन सुराणामपि प्रमोदः सम्पद्यते । यद्वा, विबुधानां-पण्डितानामानन्दस्थानम् । नदीपक्षे-वीनां-पक्षिणां बुधाः-राजाहंसास्तेषां हर्षस्थानम् । पुनर्भारतीपक्षे-रसानां शृङ्गारादीनां अन्तरं-विशेषस्तत्र तेन वा प्रौढं-प्रगल्भम् । नदीपक्षे-रसाया:- भूमेरन्तरे-मध्ये प्रवहतिस्मेति प्रौढं, कर्तरि क्तः । सरस्वती किल म्लेच्छदेशे न्यग्भूय तदन्ते पुनरुद्भवतीति लोकश्रुतिः । कालिदासोप्यूचे-"नदिमिवान्तः सलिलां सरस्वतीं" [रघुवंश ३।९] इति । यद्वा, सर:-पयोऽस्यास्तीति कृत्वा सरस्वतीशब्दो नदीमात्रवचनः । यदनेकार्थः"सरस्वती सरिद्भिदि । वाच्यापगायां स्त्रीरत्ने, गोवाग्देवतयोरपि ।" [४/१३४] सरस्तोयतडागयोः ॥" [स० तृ० ३५] __% अभिवादनं पादयोः प्रणिपात: स्तुतिर्गुणैः प्रशंसा । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy