SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ प्रथम उवासः मुकुटायमान इति । यद्यपि “पूरणगुण०" [पा०सू० २।२।२१] इत्यादिना षष्ठीसमासनिषेधात्तदन्वित्यत्र समासश्चिन्त्यस्तथापि तदनु तदुपरीत्यादयः शब्दाः ससमासाः महाकविनिबद्धत्वात्साधवः । यद्यप्यन्यतरग्रहणेऽप्यभीष्टसिद्धिस्तथापि स्त्रीपुंसरूपयोर्द्वयोर्ग्रहणं, काव्यस्य शृङ्गाररसनिर्भरत्वद्योतनार्थं, अत्रास्यैव विशेषेण वक्ष्यमाणत्वात् । मालिनी ॥१॥ यश्च जगतः शिवतातिभ्यां* शिवाभ्यामपि केनाप्यतर्केण हेतुना स्वीकृतः, स किं सहायः ? किं मूलं ? किमुपकरणश्च ? इत्याह जयति मधुसहायः सर्वसंसारवल्लीजननजरठकन्दः कोऽपि कन्दर्पदेवः । तदनु पुनरपाङ्गोत्सङ्गसञ्चारितानां, जयति तरुणयोषिल्लोचनानां विलासः ॥२॥ जयति मध्वित्यादि । कोऽप्यद्भुतवैभवः कन्दर्पदेवो जयति । किम्भूतः ? मधुसहाय:-वसन्तसखः, न हि सखायमन्तरेण कश्चिन्महाकार्यकरणाय प्रवर्तते, एतस्यापि कृत्स्नं जगत्साध्यमतो मधु मित्रमकरोत् । पुनः किम्भूतः ? सर्वा या संसारवल्ली उत्तरोत्तरवृद्धिमत्वाद् भवस्य वल्ल्युपमानम् । तस्या जननाय-उत्पादनाय जरठकन्दः-कठिनकन्दः, कठिनकन्दाद्भि अविच्युता वीरुद्वृद्धिः, तदनु-कन्दर्पदेवानन्तरं तदुत्पाद्यस्तदुत्पादकश्च पुनःपुन:-मुहुर्मुहुः, अपाङ्गोत्सङ्गे-नेत्रोपान्तप्रदेशकोडे सञ्चारितानां-कामुकजनलक्षीकरणाय प्रवतितानां तरुणयोषिल्लोचनाना-नववयःसुन्दरीनेत्राणां विलास:-कटाक्षादिविभ्रमो जयति । पुनःशब्दो मुहुःशब्दवत् अद्विरुक्तो द्विरुक्तो वाऽभ्यासवृत्तिवचनः । अथवा सकलजगज्जन्तुजातीयाभिप्रेतत्वात् नवस्वपि रसेषु शृङ्गारो मुख्यस्तस्य चाधिष्ठाता कन्दर्पदेवो जयति । तस्य चोत्पाद्योत्पादकत्वेनाविनाभूतत्वात् कान्तानयनविलासो जयति । पुनःविशेषेणेत्यर्थः । पुन:शब्दो विशेषे । यथा "नि:कन्दामरविन्दिनी स्थपुटितोद्देशाङ्कशेरुस्थली, जम्बालाविलमम्बुकर्तुमितरासूते वराहीसुतान् । दंष्ट्रायां पुनरर्णवोर्मिसलिलैराप्लावितायामियं, यस्या एव शिशोः स्थिता वसुमती सा पोत्रिणी पुत्रिणी ॥" । __ [खण्डप्रशस्ति प-२१] मालिनी ॥२॥ १. किमुपकरणश्च काम अनू० । २. कन्दर्पदेवादनन्तरं अनू० । ___★ शिवताति:-शिवङ्करः । ॥ निम्नोन्नत्तोद्देशाम् ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy