________________
दमयन्ती-कथा-चम्पू:
जयति गिरिसुतायाः कामसन्तापवाहिन्युरसि रसनिषेकश्चान्दनश्चन्द्रमौलिः । तदनु च विजयन्ते कीर्तिभाजां कवीनामसकृदमृतबिन्दुस्यन्दिनो वाग्विलासाः ॥१॥
जयतीत्यादि । चन्द्रमौलि:-सुधांशुशेखरो जयति-सर्वोत्कर्षेण वर्तते । ननु नमस्कार एव विघ्ननिरासकत्वेन प्रसिद्धस्ततः कथं तं परित्यज्य जयतीति प्रयोग: ? उच्यते-जयतीति पदेन सर्वोत्कृष्टता प्रतिपादिता भवति । सर्वोत्कृष्टश्च नमस्कार्य एव । यत्र सर्वोत्कृष्टत्वं तत्र नमस्कार्यत्वमित्यविनाभावादतो जयतीति पदेन नमस्कारप्रतिपत्तिः । नमस्कारेण च प्रबन्धकर्तृव्याख्यातृ श्रोतृणामिष्टफलसम्पत्तिः । किम्भूतश्चन्द्रमौलि: ? गिरिसुताया:हिमदुहितुः१ पार्वत्याः सम्बन्धिनि कामसन्तापं वहतीत्येवंशीलं कामसन्तापवाहि तस्मिन् कामसन्तापवाहिनि मनोभवप्रभवपीडां दधाने उरसि-हृदये चन्दनस्यायं चान्दनो रसनिषेक इव सन्तापहरणाद्रोहणद्रुमरसाभिषेक इव यः सः । यथा चन्दनरससेकस्तप्तस्य शान्तिकृद्भवति तथाऽयमपि कामाभितप्तगिरिजाहृदयस्य शान्तिकृत् । रसा निषिच्यन्तेऽस्मिन्निति रसनिषेको रसाधार इत्यप्येकदेशेन प्रतिपत्तव्यम् । रसाश्च-शृङ्गारादयो नव, तांश्च कवय एव व्यक्तीकर्तुं भविष्णवः२ । अतस्तदनु तस्य रसाधारस्य भगवतो अनुपश्चाद् रसव्यक्तिकारणभूतानां कवीनां-वाल्मीकिव्यासकालिदासप्रभृतीनां वाचां विलासा वाग्विलासा:-वचो वैचित्र्यो विजयन्ते । किम्भूतानां कवीनां ? कीर्ति-यशो भजन्तीति कीर्तिभाजस्तेषां यशस्विनाम् । किम्भूता वाग्विलासाः ? असकृद्-अजस्रं अमृतबिन्दून् तत्समानान् रसातिरेकान् स्यन्दन्ते-स्रवन्तीति अमृतबिन्दुस्यन्दिन:-निरन्तररसाविष्कारिणः । असौ हि भगवान् जगत्कर्तृत्वात् जगतोऽप्यादिरलौकिकपदमध्यास्ते । अतस्तस्य पश्चाद् ये लौकिकभावा रम्यस्वभावास्तदपेक्षयैव वाग्विलासानां विशेषजयः । अथवा वाग्विलासा विजयन्त इति स एव भगवान् शब्दब्रह्मस्वरूपः सकलस्याऽपि जगतोऽसकृदमृतबिन्दुस्यन्दित्वाद्विशेषेण जयति । यतो मूर्तया एकस्या एव गौर्या उरसि तथा चान्दन एव रसनिषेक इति व्यतिरेकः ।
अत्र च प्रथमार्द्धप्रतिपादितेनार्थेन वक्ष्यमाणप्रबन्धार्थो द्योत्यते । तथाहि-गिरिः-भीमः "गिरिर्भीमनृपे सूर्ये स्वभावे पर्वते जले" [ ] इत्युक्तेस्तस्य सुताया-दमयन्त्याः दुर्वारस्मारविकारसन्तप्ते उरसि नलश्चन्दनरसनिषेको भविष्यति, स च चन्द्रवंश्यानां मौलि:
१. हिमाचलदुहितुः अनू० । २. प्रभविष्णव: अनू० से. । ३. अलोकिकं अनू. । ४. मूर्त से. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org