________________
प्रथम उवासः
३
समं, मत्प्रसत्त्यासत्त्या सत्यायातं विद्यामदोन्मादिनं वादिनं जेष्यसीत्युक्ते स हर्षोत्कर्षः, स समाजगाम गुणग्रामाभिरामो धराधवस्य सदसि । ततो हेलया विविधवचश्चातुरीविहितवासवेज्यघृणया अप्रमेयप्रमेयज्ञानप्ररूपणया निजित्य तं भूपसमक्षं विपक्षम् । तद्दानोपढौकितकनकादिवस्तूपादाय च रूपनिजितमदनो विकसितवदनो राजराजदत्तमत्तबन्धुरसिन्धुरस्कन्धादिरूढः प्रौढवाराङ्गनावीज्यमानप्रधानातिमानप्रकीर्णकयुगलस्समियाय महामहप्राचुर्य प्राय-सुन्दरं निजमन्दिरं । ततोऽचिन्तयत् चित्ते-यावत् पिता नैति तावत् परमेश्वरी मम सन्निधत्ते । तेनाऽहं पित्राऽऽगमनादर्वाक् यशोऽर्थं कञ्चित् काव्यग्रन्थं ग्रथनामि तदा चारु । यत उक्तम्
"यतः क्षणध्वंसिनि सम्भवेऽस्मिन्, काव्यादृतेऽन्यत् क्षयमेति सर्वम् । अतो महद्भिर्यशसे स्थिराय, प्रवर्तितः काव्यकथाप्रसङ्गः ॥"
[काव्यालङ्कार अ.१. प.२२] काव्यप्रकाशेप्युक्तम्
काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । __ सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ॥ [का०प्र० १/२]
कालिदासादीनामिव यशः, श्रीहर्षादेर्धावकादीनामिव धनः, राजादिगतोचिताऽऽचारपरिज्ञानमादित्यादेर्मयूरादिनामिवानर्थनिवारणमित्यादि विचार्य चातुर्यसम्बद्धां नलदमयन्तीय-कथां५ कर्तुमुद्यतवान् । नलस्य पुण्यश्लोकत्वेन* प्रकाशत्वात् । ततोऽनुदिनं सद्भारतीलालित्यमनुसरता तत्कथाविलाससागरं तरता तेन तत्कथाया अन्यूनाः सप्तोच्छासा यावता विनिर्ममिरे तावता पिता तद्ग्रामादाजगामाऽऽत्मगृहद्वारम् । ततः श्रीभारती प्रतिश्रुतं कार्य निर्वाह्य स्वावासमलञ्चकार । तत एतावत्येवेयं चम्पूकथा स्थितेति श्रीगुरुप्रवादः ।
अथ सकलमङ्गलकारणं प्रत्यूहव्यूहनिवारणमभिधेयाधुपयोगि च निश्चयेन शास्त्रादौ कविना किमपि प्रणेयं तदेतन्मनसि निधायाभीष्टदेवताप्रणतिपूर्वमेव साध्यमारम्भणीयमिति शिष्टाचारानुल्लंघनेन सूक्तजलनिधिरपि जलैरलब्धमध्यो विचित्रपदपंक्तिसरित्पाथोवीथिसंघट्टः श्रीत्रिविक्रमभट्टः प्रतिपादनीयसर्वरसकथोपक्रमे सदा शृङ्गारित्वादिन्द्रादीनेकान्तकान्तशान्तरसाप्लुतत्वाद्वीतरागप्रभृतींश्चापहाय सर्वरसात्मकं सुरेश्वरं शङ्करमेव स्तुवन्नाह
१ सत्या ' नास्ति अनू० । २. 'ज्ञान' नास्ति अनू० से. । ३. वाराङ्गनारङ्ग० से. । ४. प्राचुर्य ' नास्ति अनूप. से. । ५. से० दमयन्तीकथां । ६. विनिम्मिरे अनू० ।
★ कर्कोटकस्य नागस्य दमयन्त्या नलस्य च ।
रितुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् ॥ [ • आर्दीभूतत्वान् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org