________________
प्रथम उच्छवासः
यद्वा, एके-केचन कवयः-जलपक्षिण इव सन्ति, के-जले वयः-कवयः । किम्भूताः ? अरणं आरः"ऋ गतौ" [पा० धा० १२] ये गत्यर्थास्ते प्राप्त्यर्था इति वचनात् आरः-प्राप्तिरार एव आरकः, स्वार्थे कः, रलयोरैक्यात् अप्सु आलकः प्राप्तिर्येषां ते तथा । अतएव पदन्यासे अप्सु प्रगल्भा अप्रगल्भा बकादयः । श्लेषे अक्षरच्युतिश्रवणादयः पलोपः । नीरञ्च अगश्च नीरागौ अजनौ-जनरहितौ नीरागौ स्थित्याद्यर्थं हेतू येषां ते, तथा एकान्तसजलवनस्थायिन इत्यर्थः । तथा अरणं आरो विहा यो गतिर्बहुलस्य आप:१ प्राप्तिर्येषां ते बहुलालापाः । श्लेषे रलयोरेकत्वश्रवणात्, सपक्षत्वेन बहुलनभोगतयः ॥४॥
यद्वा, एके कवयः वालका:-हस्वा वाला वालका "अल्पाख्यायां" [पा० सू० ५/ ४/१३६] कन्, चूर्णकुन्तला इव सन्ति । ते किम्भूताः ? पदन्यासे-वेणीलक्षणस्थानरचनायां अप्रगल्भा:-असमर्था असंस्कार्यत्वात् तेन जनानां-युवलोकानां रागाभावजनकाः, सपुष्पमालवेणीविन्यासेन बद्धा एव केशा रागजनका इति । तथा अलीनां समूह आलं, पद्मिनीमुखवर्तित्वेन कर्णोत्पलनिकटवर्तित्वेन वा बहुल: आलस्य-भ्रमरसमूहस्य आपःप्राप्तिर्येषु ते, पद्मिनीमुखस्य कर्णोत्पलस्य च सुरभित्वात् । यद्वा, बहुलाडे-देशविशेषे आपःप्राप्तिर्येषां ते, तद्देशे हि अदीर्घा एव केशाः स्युरिति । उलयोरैक्याद् बहुलालापाः ॥५॥
एके अबालका:-पण्डिताः कस्य-ब्रह्मणो वयः-पक्षिणो राजहंसा इव सन्ति । किम्भूता राजहंसाः ? पदन्यासे-ब्रह्मचरणन्यासे प्रगलतीतिरे प्रगल्, न प्रगल् अप्रगल्, एवं विधा अक्षरा भा-प्रभा येषां ते । ब्रह्मवाहनत्वात् । अतएव जनेषु निश्चितं राजन्ते इति जननीराः, "क्वचित्"डः । तथा गो-गमनं तत्र हेतवः विधेर्गमने कारणं । तथा "लड विलासे" [पा० धा० ३८३] ललनं लाल:-विलासः बहुर्लालस्य-लीलाविशेषस्य आपःप्राप्तिर्येषु ते बहुलालापाः ॥६॥
यद्वा, हे अ !-कृष्ण तव एके कवयः अबालका:-प्रौढा इव सन्ति । तव इत्यत्र श्लेषाद् विसर्गलोपः । हे प्रगल्भाः । पदन्यासप्रगल्भं धृष्टं प्रकरणाद् बलिं अस्यति-पाताले क्षिपतीति प्रगल्भाः, ईदृग्विधः पदन्यासः-क्रमक्षेपो यस्य स तस्य सम्बोधनम् । तथा इ:कामस्तस्य जननी-लक्ष्मीस्तस्यां रागो यस्य स इजननीरागस्तस्य सम्बुद्धौ इजननीराग !, न विद्यते बहुलस्य-प्रभूतस्य आलस्य-अनर्थस्य आप:-व्याप्तिर्येषु ते । “आप्लु व्याप्तौ" [पा० धा० १३४२]। अबहुलालापा एतत् कविविशेषणम् ।।७।।
यद्वा, एके कवय अबालका इव सन्ति । किम्भूताः कवयः ? अवत्-विष्णुवत् प्रगल्भाः । क्व ? पदन्यासे-पदरचनायां, यथा तेन पदत्रयेण विश्वत्रयं व्याप्तं तथा कविभिः
१. आरस्य आपः अनू० । २. यद्वा एके अनू० । ३. सति प्रगलतीति अनू० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org