________________
है। जनार्दनी टीका का जर्नादन के नाम से इतने स्थानों पर प्रयोग किया है :-सर्ग ४-पद्य ५३, १२-९१, १३-७, १३-७२, १४-९, १९-१६, १९, ५० टीका में। वल्लभीय टीका का वल्लभ के नाम से इतने स्थानों पर प्रयोग हुआ है :-सर्ग १, पद्य २७, १-२९, १-४१, १-७३, ४-६, ४१२, ४-५३, ५-६७, ८-६९, ११-७५, १३-२, १५-९, १५-४८, १७-१२, १७-३४, १८-५ की टीकाओं में । महोपाध्याय मल्लिनाथ कोलाचल की टीका का संजीविनी के नाम से तीन स्थानों पर उल्लेख किया है :-सर्ग १, पद्य १४, १-३३ और २-५२ की टीका में। दिनकर और चारित्रवर्द्धन की टीकाओं के मन्तव्य का नामों से कहीं उल्लेख नजर नहीं आता। “पौराणिकाः टीकाकृतः, कश्चित्, केचन, केचित्, चिन्त्यं" शब्दों से पूर्ववर्ती टीकाकारों के मतों का सैकड़ों स्थानों पर उल्लेख किया है। उदाहरण के तौर पर ३-४ उद्धरण प्रस्तुत कर रहा हूँ :
"केचन हविषे दीर्घसत्रस्येत्यस्य श्लोकस्योपयोगार्थं मां च प्रसूतिं च समाहारे द्वन्द्वसमास इति व्याचक्षते, तदसत् नंपुसकत्वप्रसंगात्, अन्यथा एतत्कथनानन्तरं सन्तानार्थं धेनोः समाराधनस्यैव वक्तुमुचितत्वात् सुरभेवरुणालयस्थितिवर्णनमकाण्डताण्डवितं भवेत्। वयं त्वस्य उपयोगमन्यथा ब्रूमः-या मामशपत् सा गौः सम्प्रति वास्ते, तामहमपराधदूरीकरणाय वरिवस्यामीति राज्ञोऽभिप्रायं वितयं हविषे दीर्घसत्रस्येति वर्णनं युक्तमतो मम प्रसूतिरिति व्याख्यानं युक्तमिति। यद्वा राधेर्हेतुमणिजंतात्को ल्यप् तथैव राधेः प्रयोजनकी प्रजेति न भिन्नकर्तृव्वं मत्प्रसूतिमनाराध्य मत्प्रसूतेराराधनमकारयित्वा प्रजा न भविष्यतीति।"
-सर्ग १, पद्य ७९ "क्षेत्रस्येति क्षतशब्दोपपदात् त्रायतेरातोनुपसर्गे क इत्यत्र योगविभागात् कप्रत्ययः आतो लोपः क्षत्रान् घ इति सूत्रकारवचनात् पृषोदरादित्वादिति कश्चित्, यद्वा क्षणु हिंसायामित्यस्मात् धातो वे क्विपि पंचमलोपे नुगागमे च क्षतः क्षतात् त्रायत इति क्षत्रं । अत्र व्याख्याने क्षतादित्यर्थकथनं न तु विग्रहः एतेन एकातपत्रं तद्रक्षेति श्लोकद्वयं निरस्तम्।"
__ -सर्ग २, पद्य ५३ "ननु कथं रञ्जनादिति यावतारजकरजनरजः सूपसंख्यानमित्यनेनानुनासिकलोपेन भाव्यं, उच्यते, रजः साहचर्याद् रजनशब्दस्यौणादिक स्य तत्र ग्रहणमत्र तु रंजनशब्दो ल्युट्प्रत्ययान्तोऽतो न दोषः। अथ रञ्जनाद् राजा पौराणिकीव्युत्पत्तिः, अद्यतनास्तु राज़ दीप्तावित्यस्य व्युत्पत्तिं प्रतिपन्नाः, वल्लभस्तु रञ्जनशब्दे रञ्जधातोः, ण्यन्ताद्भावे ल्युट, मृगरमणाभावाच्च नलोपाभाव इति।"
-सर्ग ४, पद्य ११ "ननु पुरोऽग्रतोऽग्रेषु सर्तेरिति क्विप्प्रत्यये एकारान्तनिपातनादरुणाग्रसरमिति चिन्त्यं । केचित् पुरोग्रतोग्रेषु सर्तेरिति सप्तमीबहुवचनार्थमेकारान्तत्वं न निपातजमिति साधुत्वमाचक्षते तन्न प्रामाण्यधुरमधिगच्छति, काशिकान्यासकारमहाभाष्यादिविरुद्धत्वात्, वयं तु सरतीति सर इति पचाद्यच्, अग्रस्य सरोऽग्रसर इति समाधानं कुर्मः।"
-सर्ग ९, पद्य ६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org