SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ૨ ૨ ૨ * महोपाध्यायश्रीकृत-नयविषयककृति: * "अस्थि जिओ णिच्चो कत्ता भुत्ता सपुन्नपावाणं। अत्थि धुवं निव्वाणं तस्सोवाओ अ छठाणा ॥१॥ इति" को विशेष इत्यत आह-नास्तित्ववादे गुरुशिष्यक्रियाक्रियाफलादिव्यवहारलोपान्मार्गत्यागः, अस्तित्ववादे चोक्तव्यवहारप्रामाण्यविश्वासे तत्प्रवेशः, इत्येताभ्यां हेतुभ्यां फलतस्तत्त्वं सम्यक्त्वमिथ्यास्थानकत्वमिष्यते ॥१२३।। स्वरूपतस्तु सर्वेऽपि स्युमिथोऽनिश्रिता नयाः । मिथ्यात्वमिति को भेदो नास्तित्वास्तित्वनिर्मितः ॥१२४॥ मिथोऽनिश्रिता इति स्याद्वादमुद्रया परस्पराकांक्षारहिता इति तेषां भेदो भविष्यतीत्यत आह ॥१२४॥ धयंशे नास्तिको ोको बार्हस्पत्यः प्रकीर्तितः। धर्मांशे नास्तिका ज्ञेयाः सर्वेऽपि परतीर्थिकाः ॥१२५॥ धर्मिण आत्मनोंऽशे नास्तित्वभागे एकश्चार्वाको नास्तिक: प्रोक्त:, धर्माणामात्मनः शरीरप्रमाणत्वनानात्वादीनामंशे नास्तित्वपक्षे सर्वेऽपि नैयायिकवैशेषिकवेदान्तिसांख्यपातंजलजैमिनीयादयः परतीथिका नास्तिका ज्ञेयाः ॥१२५।। इत्थमेव क्रियावादे सम्यक्त्वोक्तिर्न दुष्यति। मिथ्यत्वोक्तिस्तथाज्ञानाक्रियाविनयवादिषु ॥१२६॥ क्रियायां पक्षपातो हि पुंसां मार्गाभिमुख्यकृत् । अन्त्यपुद्गलभावित्वादन्येभ्यस्तस्य मुख्यता ॥१२७॥ क्रियायां पक्षपातो मोक्षेच्छया आवेशो हि पुंसां मार्गानुसारिता । तदुक्तं दशाचूर्णौ - "जो अकिरियावाई सो भविओ अभविओ वा कण्हपख्खिओ सुक्कपख्खिओ वा, जो किरियावाई सो णियमा भविओ णियमा सुक्कपख्खिओ अंतो पुग्गलपरियट्टस्य सिज्जइ इत्यादि । असिइसयं किरियाणं अकिरियवाईण होइ चुलसीई । अन्नाणिय सत्तठ्ठी वेणईयाणं तु बत्तीसा ॥१॥" इति गाथा । अत्र च क्रियावाद्यादीनां त्रिषष्ट्यधिकशतत्रयभेदा इति ॥१२७।। क्रियानयः क्रियां ब्रूते ज्ञानं ज्ञाननयः पुनः । मोक्षस्य कारणं तत्र भूयस्यो युक्तयोर्द्वयोः ॥१२८॥ विज्ञप्तिः फलदा पुंसां न क्रिया फलदा मता। मिथ्याज्ञानात्प्रवृत्तस्य फलासंवाददर्शनात् ॥१२९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004070
Book TitleSaptabhangi Nayapradip
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year
Total Pages280
LanguageHindi, Gujarati, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy