________________
* नयोपदेशः क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात्सुखितो भवेत् ॥१३०॥ ज्ञानमेव शिवस्याध्वा मिथ्यासंस्कारनाशनात् । क्रियामात्रं त्वभव्यानामपि नो दुर्लभं भवेत् ॥१३१॥ तंडुलस्य यथा वर्म यथा ताम्रस्य कालिका। नश्यति क्रिययामुत्र पुरुषस्य तथा मलः ॥१३२॥ बठरश्च तपस्वी च शूरश्चाप्यकृतव्रणः । मद्यपा स्त्री सती चेति राजन्न श्रद्दधाम्यहम् ॥१३३॥ ज्ञानवान् शीलहीनश्च त्यागवान् धनसंग्रही। गुणवान् भाग्यहीनश्च राजन्न श्रद्दधाम्यहम् ॥१३४॥ इति युक्तिवशात्प्राहुरुभयोस्तुल्यकक्षताम् । मंत्रेऽप्याह्वानं देवादेः क्रियायुग्ज्ञानमिष्टकृत् ॥१३५॥ ज्ञानं तुर्ये गुणस्थाने क्षायोपशमिकं भवेत् । अपेक्षते फले षष्ठगुणस्थानजसंयमम् ॥१३६॥ प्रायः संभवतः सर्वगतिषु ज्ञानदर्शने । तत्प्रमादो न कर्तव्यो ज्ञाने चारित्रवर्जिते ॥१३७॥ क्षायिकं केवलज्ञानमपि मुक्तिं ददाति न । तावान्नाविर्भवेद्यावच्छैलेश्यां शुद्धसंयमः ॥१३८॥ व्यवहारे तपोज्ञानसंयमा मुक्तिहेतवः । एकः शब्द सूत्रेषु संयमो मोक्षकारणम् ॥१३९॥ संग्रहस्तु नयः प्राह जीवो मुक्तः सदा शिवः । अनवाप्तिभ्रमात्कंठस्वर्णन्यायात् क्रिया पुनः ॥१४०॥ अनन्तमर्जितं ज्ञानं त्यक्ताश्चानन्तविभ्रमाः। न चित्रं कलयाप्यात्मा हीनोऽभूदधिकोऽपि वा ॥१४१॥ धावन्तोऽपि नया: सर्वे स्युर्भावे कृतविश्रमाः।
चारित्रगुणलीनः स्यादिति सर्वनयाश्रितः ॥१४२॥ सुनिपुणमतिगम्यं मन्दधीदुःप्रवेशं प्रवचनवचनं न क्वापि हीनं नयौघैः । गुरुचरणकृपातो योजयंस्तान् पदे यः परिणमयति शिष्यांस्तं वृणीते यशःश्रीः ॥१४३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org