SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ * नयोपदेशः ૨ ૨૧ स्वतंत्रव्यक्तिसामान्यग्रहा येऽत्र तु नैगमे । औलूक्यसमयोत्पत्तिं ब्रूमहे तत एव हि ॥११८॥ ऋजुसूत्रादितः सौत्रान्तिकवैभाषिकौ क्रमात् । अभूवन् सौगता योगाचारमाध्यमिकाविति ॥११९॥ ऋजुसूत्रादित ऋजुसूत्रतः सौत्रान्तिकः, शब्दतो वैभाषिकः, समभिरूढतो योगाचारः, एवंभूततो माध्यमिक, इति चत्वारः सौगता अभूवन् । अत्र काव्यम् । "अर्थो ज्ञानसमन्वितो मतिमता वैभाषिकेणेक्ष्यते, प्रत्यक्षो न हि बाह्यवस्तुवसर: सौत्रान्तिकैराश्रितः । योगांचारमतानुगैरभिमता साकारबुद्धिः परा, मन्यन्ते बत मध्यमाः कृतधियः स्वस्थां परां संविदम् ॥१॥ इति" ॥११९॥ नयसंयोगजः शब्दालंकारादिश्च विस्तरः। कियान् वाच्यो वचस्तुल्यसंख्या ह्यभिहिता नयाः ॥१२०॥ स्याद्वादनिरपेक्षैश्च तैस्तावन्तः परागमाः । ज्ञेयोपयुज्य तदियं दर्शने नययोजना ॥१२१॥ नयैः स्याद्वादनिरपेक्षैः स्याद्वादैकवाक्यतारहितैस्तावन्तो वचस्तुल्यसंख्या एव परागमाः परसिद्धान्ता भवन्ति । अभिनिवेशान्वितनयत्वस्यैव परसमयलक्षणत्वादिति । तदिदमुक्तं संमतौ (जावइया इत्यादि) इयं दर्शने नययोजना ज्ञेया ॥१२१॥ नास्ति नित्यो न नो कर्ता न भोक्तात्मा न निर्वृतिः । तदुपायश्च नेत्याहुर्मिथ्यात्वस्थानकानि षट् ॥१२२॥ नास्त्यात्मेति चार्वाकमते, न नित्य आत्मेति क्षणिकवादिमते, न कर्ता न भोक्तात्मेति सांख्यमते, यद्वा न कर्तेति सांख्यमते न भोक्तेति वेदान्तिमते, नास्ति निर्वृतिः सर्वदुःखविमोक्षलक्षणा नास्तिकप्रायाणां यज्वनां मते, अस्ति मुक्तिः परं तदुपायो नास्ति सर्वभावानां नियतत्वेनाकस्मादेव भावादिति नियतिवादिमते, इत्येतान्यपि षड् मिथ्यात्वस्थानकान्याहुः पूर्वसूरयः ॥१२२।। षडेतद्विपरीतानि सम्यक्त्वस्थानकान्यपि । मार्गत्यागप्रवेशाभ्यां फलतस्तत्त्वमिष्यते ॥१२३॥ एतेभ्यः प्रागुक्तेभ्यो विपरीतानि षट् सम्यक्त्वस्थानकानि भवन्ति । गाथा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004070
Book TitleSaptabhangi Nayapradip
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year
Total Pages280
LanguageHindi, Gujarati, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy