________________
* महोपाध्यायश्रीकृत-नयविषयककृति: * जातं द्रव्यास्तिकाच्छुद्धाद् दर्शनं ब्रह्मवादिनाम् ।
तत्रैके शब्दसन्मानं चित्सन्मानं परे जगुः ॥१०९॥ एके ब्रह्मवादिनः शब्दसन्मात्रमिच्छन्ति अन्ये चित्सन्मात्रमिच्छन्ति ॥१०९॥
अशुद्धाद् व्यवहाराख्यात्ततोऽभूत् सांख्यदर्शनम् ।
चेतनाचेतनद्रव्यानन्तपर्यायदर्शकम् ॥११०॥ व्यवहाराख्यादशुद्धात् ततो द्रव्यार्थिकनयात् सांख्यदर्शनमभूत्, कीदृशं तत् ? चेतनश्चाचेतनद्रव्यं चानन्तपर्यायाश्चाविर्भावतिरोभावात्मकास्तेषां दर्शकं प्रतिपादकमिति ॥११०||
यद्यप्येतन्मतेऽप्यात्मा निर्लेपो निर्गुणो विभुः।
अध्यासाद् व्यवहारश्च ब्रह्मवादेऽपि संमतः ॥१११॥ एतन्मते सांख्यमते आत्मा कर्तृत्वादिलेपरहितो गुणस्पर्शशून्यः ॥१११॥
प्रत्युतात्मनि कर्तृत्वं सांख्यानां प्रातिभासिकम् । वेदान्तिनां त्वनिर्वाच्यं मतं तद् व्यावहारिकम् ॥११२॥ अनुत्पन्नत्वपक्षश्च निर्युक्तौ नैगमे श्रुतः। नेति वेदान्तिसांख्योक्त्योः संग्रहव्यवहारता ॥११३॥ तथाप्युपनिषदृष्टि: सृष्टिवादात्मिका परा।
तस्यां स्वप्नोपमे विश्वे व्यवहारलवोऽपि न ॥११४॥ तथाप्युपनिषद्वेदान्तदर्शनप्रवृत्तिः ॥११४||
सांख्यशास्त्रे च तन्नात्मव्यवस्था व्यवहारकृत् ।
इत्येतावत्पुरस्कृत्य विवेकः संमतावयम् ॥११५॥ तात्पर्यविषयीकृत्य अयम् ॥११५।।
हेतुर्मतस्य कस्यापि शुद्धोऽशुद्धो न नैगमः । अन्तर्भावो यतस्तस्य संग्रहव्यवहारयोः ॥११६॥ द्वाभ्यां नयाभ्यामुन्नीतमपि शास्त्रं कणाशिना ।
अन्योऽन्यनिरपेक्षत्वान्मिथ्यात्वं स्वमताग्रहात् ॥११७॥ द्वाभ्यां सामान्यविशेषग्राहिभ्यां संग्रहव्यवहाराभ्यां नयाभ्याम् ॥११७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org