SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ नयोपदेशः तत्कारणेच्छाजनकज्ञानगोचरबोधकाः । विधयोऽप्युपयुज्यन्ते तेनेदं दुर्मतं हतम् ॥१०३॥ तस्याहार्यारोपस्य कारणं या इच्छा तज्जनकं यत्प्रतिष्ठितप्रतिमाभगवदभेदेनाध्यारोपयेदिति विधिजनितं ज्ञानं तद्गोचरीभूताः प्रतिष्ठाया बोधका इष्टसाधनत्वबोधनादिद्वारा तदुत्पत्तिहेतव इति यावत्, विधयो विधिवाक्यान्यप्युपयुज्यन्ते फलवन्तो भवन्ति, तेनेदं वक्ष्यमाणं दुर्मतमाध्यात्मिकाभासानां हतं निराकृतम् ॥१०३।। प्रतिष्ठाद्यनपेक्षायां शाश्वतप्रतिमार्चने । अशाश्वता_पूजायां को विधिः किं निषेधनम् ॥१०४॥ किं तदित्याह-शाश्वत इति स्पष्टं, प्रतिष्ठितप्रतिमां पूजयेदिति विधिरप्रतिष्ठितां न पूजयेदिति निषेधनं च, किं ? विधिनेषेधार्थान्वयस्यायोग्यत्वादिति ॥१०४।। पूजादिविधयो ज्ञानविध्यंगित्वं यदाश्रिताः । शाश्वाताशाश्वतार्चासु विभेदेन व्यवस्थिताः ॥१०५॥ कथं निरस्तं ? तदाह पूजेति । पूजादिविधयः प्रतिष्ठितां प्रतिमां पूजयेदित्यादिवाक्यलक्षणा ज्ञानविधेः प्रतिष्ठितां प्रतिमां भगवद्भिन्नत्वेनाध्यारोपयेदित्यंगवाक्यात्मकस्यांगित्वं प्रधानत्वमाश्रिताः शाश्वताशाश्वतार्चासु विभेदेन भिन्नरूपेण व्यवस्थिता विधिविषयनिर्वाहत्वं अशाश्वतप्रतिमास्थले, अन्यत्र त्वनादिप्रतिष्ठितत्वप्रत्यभिज्ञाया एव तथात्वं, तादृशशिष्टाचारेणं तथैव विधिबोधनादिति ॥१०५।। एतेन व्यवहारेऽपि स्थापनानाग्रहो हतः । तत्रार्धजरतीयं किं नाम्नापि व्यवहर्तरि ॥१०६॥ एतेन युक्तिकदबंकेन संग्रहे स्थापनाव्यवस्थापनेन व्यवहारेऽपि स्थापनाया अनाग्रहोऽस्वीकारो हतो निरस्तः केषांचिदाचार्याणां, यतस्तत्र व्यवहारे नाम्नापि नामनिक्षेपेणापि व्यवहर्तरि व्यवहारमभ्युपगच्छति, किमिदमर्धजरतीयं यदुपनया (यदुपमया) न व्यवहार इति, न हीन्द्रप्रतिमायां नेन्द्रव्यवहारो भवति ॥१०६॥ ऋजुसूत्रेऽपि ये द्रव्यनिक्षेपं प्रवदन्ति न । व्याख्येया तैः कथं तत्र द्रव्यावश्यकसूत्रगीः ॥१०७॥ .. ऋजुसूत्रेऽपि ये द्रव्यनिक्षेपं न स्वीकुर्वते तान् दूषयति अनुपयोगो द्रव्यमिति, तत्र तैर्द्रव्यावश्यकगी: कथं व्याख्येया ? ॥१०७।। तस्माद्यथोक्तनिक्षेपविभागो भाष्यसंमतः। इतीयं मुहुरालोच्या निक्षेपनययोजना ॥१०८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004070
Book TitleSaptabhangi Nayapradip
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year
Total Pages280
LanguageHindi, Gujarati, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy