________________
* महोपाध्यायश्रीकृत-नयविषयककृतिः घटोपयोगस्त्यो वा भावो द्रव्यार्थिकेऽमतः ।
तेन तत्र त्रयं प्रोक्तमिति जानीमहे वयम् ॥८४॥ इत मतान्तरमग्रेतनवचनेन सहाविरोधं समर्थयन्नाह घटेति । वेति पक्षान्तरे घटोपयोगरूपो भावो द्रव्याथिकेऽमतोऽनिष्टस्तेन तत्र मंगलवादे द्रव्याथिके त्रयं नामादिनिक्षेपत्रयं प्रोक्तं, न तु सर्वथा भावानभ्युपगमाभिप्रायेण जलाहरणादिपरिणतिरूपभावघटस्य द्रव्याथिकेनाभ्युपगमादिति वयं जानीमहे । तथा च भाष्ये पूर्वे शुद्धचरणरूपभावमंगलाधिकारप्रवृत्ते गमादिना जलाहरणादिरूपभावघटाभ्युपगमेऽपि घटोपयोगरूपभावघटानभ्युपगमात्तन्निषेधोक्तिः, अग्रे तु व्यवस्थाधिकारद्विशेषोक्तिरिति न विरोधः ॥८४॥
तत्र नामघट: प्रोक्तो घटनाम्ना पटादिकः। ...
तच्चित्रं स्थापनाद्रव्यं मृद्भावो रक्तिमादिकः ॥८५॥ उक्तं निक्षेपचतुष्टयं तत्र निक्षेपचतुष्टयमध्ये घटनाम्ना क्लृप्तः पटादिकोऽपि नामघट उच्यते, शेषं स्पष्टम् ॥८५।।
एकद्रव्येऽप्यात्मनामाकृतिकारणकार्यताः ।
पुरस्कृत्य महाभाष्ये दिष्टा पक्षान्तरेण ते ॥८६॥ एकस्मिन्नपि द्रव्ये आत्मनो विवक्षितपदार्थस्य नामाभिधायकं पदं नाम, आकृतिः संस्थानं, कारणता तत्पर्यायजननशक्तिर्द्रव्यं, कार्यता तद्रूपेणाभिव्यक्तिर्भावः, एताः पुरस्कृत्य मेलयित्वा भिन्नपक्षाभिप्रायेण ते नामादयश्चत्वारोऽपि निक्षेपा महाभाष्ये दिष्टाः प्रतिपादिताः ॥८६।।
अप्रज्ञाप्याभिधाद्रव्यजीवद्रव्याद्ययोगतः । ।
न चाव्यापित्वमेतेषां तत्तभेदनिवेशतः ॥८७॥ एतेषां नामादीनां निक्षेपाणामप्रज्ञाप्ये वस्तुनि अभिधाया नाम्नोऽप्रयोगाज्जीवद्रव्ययोश्च जीवत्वेन द्रव्यत्वेन भूतभविष्यत्पर्यायाभावेन तत्कारणत्वाभावाद् द्रव्यनिक्षेपस्यायोगात्, न चाव्याप्तिः ॥८७।।
डतीयं प्रायिकी व्याप्तिरभियुक्तैनिस्तप्यते ।
यत्तत्पदाभ्यां व्याप्तिश्चानुयोगद्वारनिश्चिता ॥८८॥ कुतः प्रायिकी अभियुक्तैः पंडितैर्निरूप्यते, व्याप्तिश्च यत्तत्पदाभ्यामनुयोगद्वारसूत्रादेव निश्चिता "जत्थ य जं जाणिज्जा णिख्खेवं णिख्खिवे णिरवसेसं ।
जत्थवि य न जाणिज्जा चउक्कयं णिख्खिवे तत्थ ॥१॥ इति तत्पाठादिति श्लोकद्वयं यद्येकस्मिन्न संभवति नैतावति भवत्यव्याप्तिता ।।८८।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org