SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ नयोपदेशः ૨૧૫ आमे घटे यथा न्यस्तं जलं स्वघटनाशकृत् । तथाऽपरिणते शिष्ये रहस्यं नयगोचरम् ॥७७॥ पृथक्त्वे नाधिकारस्तन्नयानां कालिकश्रुते । अधिकारस्त्रिभिः प्रायो नयैर्युत्पत्तिमिच्छताम् ॥७८॥ तत्तस्मात्कारणान्निश्चयनयः स्तोकानामुपकारकत्वाद्बहूनां चापकारकत्वाच्चक्रि भोजनवत् सूक्ष्मनयानां च बहूनामुपकारकत्वात्कालिकश्रुते पृथक्त्वेऽनुयोगचतुष्टयपृथक्करणे सति नयानां सर्वेषां नयानामधिकारो नास्ति योजनायां इति शेषः, किं तु त्रिभि.गमसंग्रहव्यवहारैर्नयैर्युत्पत्तिमिच्छतां शिष्याणां हितमिति शेषः प्रायोऽधिकार इति ॥७८।। तेनादौ निश्चयोद्ग्राहो नग्नानामपहस्तितः । रसायनीकृतविषयप्रायोऽसौ न जगद्धितः ॥७९॥ तेन सूत्रोक्तरीतिलंघनेनादौ निश्चयनयोपन्यासो दिगंबराणामपहस्तितो निराकृतः, असौ निश्चयो न जगद्धितः, यथा रसायनीकृतं विषं सर्वेषां न हि हिताय ॥७९॥ . उन्मार्गकारणं पापं परस्थाने हि देशना । बालादेर्नान्ययोग्यं च वचो भेषजवद्धितम् ॥८०॥ परस्थाने स्वाधिकारिभिन्नाधिकारिणि निमित्ते हि निश्चितं देशनोन्मार्गकारणमिति हेतोः पाप इति । न च बालादेर्मध्येऽन्ययोग्यं वचोऽन्यस्य भेषजवद्धितम् ॥८०॥ ये सीदन्ति क्रियाभ्यासे ज्ञानमात्राभिमानिनः । निश्चयानिश्चयं नैते जानन्तीति श्रुते स्मृतम् ॥८१॥ इष्टः शब्दनयैर्भावो निक्षेपा निखिलाः परैः । मतं मंगलवादेऽन्यद्भिदां द्रव्याथिके त्रये ॥८२॥ अथ निक्षेपाधिकारः शब्दनयैर्भावनिक्षेप इष्टः पर्यायाथिके भावनिक्षेप एव परैः, द्रव्याथिकेन निखिलाश्चत्वारोऽपि निक्षेपास्तत्कथं संगच्छते मंगलवादे यदुक्तं भाष्यकृता द्रव्याथिके भिदां त्रये नामस्थापनाद्रव्यलक्षणे मंगलवादेऽभिहितेऽन्यन्मतं पुरस्कृतमिति शेषः तत्त्वार्थवृत्तावपि ॥८२।। द्रव्यार्थे गुणवाञ्जीव: पर्यायार्थे च तद्गुणः । सामायिकमिति प्रोक्तं यदिशावश्यकादिषु ॥८३॥ आवश्यकादिषु ग्रन्थेषु द्रव्यार्थिकनये गुणवान् जीवः सामायिकं, पर्यायार्थिकनये च जीवस्य गुणः सामायिकमिति प्रोक्तं, तन्मतमेतदित्यर्थः ।।८३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004070
Book TitleSaptabhangi Nayapradip
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year
Total Pages280
LanguageHindi, Gujarati, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy