________________
* महोपाध्यायश्रीकृत-नयविषयककृतिः यत्र तत्र गतस्यापि तद्वासित्वं निगद्यते । तद्वासवृत्तिभागित्वे ज्ञेयं तत्त्वौपचारिकम् ॥७०॥ संग्रहो वसतिं ब्रूते जन्तोः संस्तारकोपरि। ऋजुसूत्रः प्रदेशेषु स्वावगाहनुकृत्सु खे ॥७१॥ तेष्वप्यभीष्टसमये न पुनः समयान्तरे।
चलोपकरणत्वेनान्यान्यक्षेत्रावगाहनात् ॥७२॥ तेषु स्वावगाहकाकाशप्रदेशेष्वपि अभीष्टसमये विवक्षितवर्तमानकाले वसतिर्न पुनभिन्नकाले, वीर्यसंयोगवद्र्व्यकरणचापल्येन प्रतिसमयमन्यान्यक्षेत्रस्यापरापराकाशप्रदेशानामवगाहनादिति ॥७२॥
स्वस्मिन् स्ववसतिं प्राहुस्त्रयः शब्दनयाः पुनः ।
एषानुयोगद्वारेषु दृष्टान्तमययोजना ॥७३॥ त्रयः शब्दनयाः शब्दसमभिरूद्वैवंभूताख्याः स्वप्रदेशेष्वेव वसतिं प्राहुः, स्वस्य मुख्याया वसतेः संभवात्, आकाशप्रदेशानामपि परद्रव्यत्वेन स्वसंबन्धस्याघटनात् ॥७३।।
शुद्धा ह्येतेषु सूक्ष्मार्था अशुद्धा स्थूलगोचराः।
फलतः शुद्धतां त्वाहुर्व्यवहारे न तु निश्चये ॥७४॥ एतेषु नयेषु ये यतः सूक्ष्मार्थास्ते ततः शुद्धाः, ये च यतः स्थूलगोचरास्ते ततोऽशुद्धाः, शुद्धाः स्वरूपतः शुद्धतां प्राहुर्व्यवहारनये न तु निश्चये ॥७४।।
क्रियाक्रियाफलौचित्यं गुरु शिष्यश्च यत्र न ।
देशनानिश्चयस्यास्य पुंसां मिथ्यात्वकारणम् ॥७५॥ तथाहि-क्रियाक्रियाफलयोरौचित्यमित्यादि यत्र निश्चयनयेन हि, यतः दूहो"नहि निश्चयइ शिष्य गुरु, क्रियाक्रियाफलयोग। दाता नहि भोक्ता नहि, निष्फल सवई संयोग ॥१॥" ॥७५।।
परिणामे नयाः सूक्ष्मा हिता नापरिणामके ।
न वातिपरिणामे च चक्रिणो भोजनं यथा ॥७६॥ परिणामे ऐदंपर्यार्थश्रद्धायां सूक्ष्मार्था नया हिताः, पुनरपरिणामके उत्सर्गेकरुचौ पुरुषे न हिताः तथातिपरिणामकेऽपवादैकरुचौ पुरुषे न हिताः ॥७६।। १. भुङ्क्तेऽन्यः कुरुते चान्यो गुरुः शिष्यश्च यत्र न । देशना निश्चयस्यास्य पुंसां मिथ्यात्वकारणम् ।।७६।। इत्यधिक:
श्लोक: स्वोपज्ञवृत्तियुते नयोपदेशे।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org