________________
नयोपदेशः आदिष्टजीवद्रव्याभ्यां द्रव्यन्यासस्य संभवम् ।
अप्रज्ञाप्ये जिनप्रज्ञानाम्नश्च ब्रुवते परे ॥८९॥ __परे आचार्या अप्रज्ञाप्ये वस्तुनि जिनप्रज्ञारूपनामनिक्षेपस्य संभवं ब्रुवते, तत्र केवलिप्रज्ञैव नामतयैव तत्कार्यकरणात् आदिष्टद्रव्यत्वानां घटादिपर्यायाणां हेतुत्वाद् द्रव्यं ॥८९॥
तच्चिन्त्यमुपयोगो यन्नाम द्रव्यार्थिकस्य न ।
नरादेव्यजीवत्वे सिद्धे स्याद् भावजीवता ॥१०॥ यद्यस्माद् द्रव्यार्थिकस्य नयस्य मत उपयोगो नाम न भवति ॥१०॥
आदिष्टद्रव्यहेतुत्वाद द्रव्यद्रव्यप्रतिश्रुतौ।
भावद्रव्यं न किंचित् स्याद् गुणेऽपि द्रव्यतार्पणात् ॥११॥ आदिष्टद्रव्यहेतुत्वाद्धेतोर्द्रव्यद्रव्यस्य प्रतिश्रुतौ स्वीकारे च भावद्रव्यं किमपि न स्यात् ॥११॥
अन्ये तु द्रव्यजीवो धीसंन्यस्तगुणपर्ययः ।
तदसन्न धिया तेषां संन्यासः स्यात्सतां यतः ॥१२॥ अन्ये त्वाचार्या धिया बुद्ध्या संन्यस्ता गुणपर्याया यस्य स तथा गुणपर्यायवियुक्तः प्रज्ञास्थापितः तदसत्, यतः सतां तेषां गुणपर्यायाणां धिया संन्यासो न स्यात् तदेव प्रायिकव्याप्त्या नामादिचतुष्टयं सर्वत्रेच्छन्ति सर्वेऽपि द्रव्यार्थिकनया इति व्यवस्थापितम् ॥१२॥
संग्रहे स्थापना नेष्टा तस्या नाम्नैव संग्रहात् । . किं नेन्द्रचित्रं नामेन्द्र इन्द्रनामकपिंडवत् ॥१३॥ ___ संग्रहनये स्थापना नेष्टा, स्थापनाया नामनिक्षेपेणैव संग्रहात्, इन्द्रप्रतिमा इन्द्रनामकपिंडवत् किं नामेन्द्रो न भवति ? अपि तु भत्येव ॥९३।।
नामातिरिक्तो नामेन्द्रो लक्ष्य इन्द्रपदस्य हि।
तस्य मुख्यार्थसादृश्यैर्वैसादृश्ये च नाग्रहः ॥१४॥ वैसदृश्ये सादृश्ये वा निमित्ते नाग्रहः कर्तव्यः ॥१४॥
इदं कैश्चिन्मतं तच्च भाष्ये दूषितमुच्चकैः।
नाम्नैव द्रव्यनिक्षेपेऽप्येवं संग्रहसंभवात् ॥१५॥ इदं मतं भाष्ये दूषितम् ॥१५॥
परिणामितया द्रव्यं वाचकत्वेन नाम च । भावस्थमिति भेदश्चेन्नाम्नेन्द्रे दुर्वचं ह्यदः ॥१६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org