________________
श्रीहंसचन्द्रशिष्यविरचितम् • २५७ निजदेशे जिनचैत्यन्यकारयत् । अनेछुः भूपतिरुद्यानमायातं जयसिंहाभिधं गुरुं गत्वा वन्दे । सूरिभिः धर्मदेशना दत्ता । तदनन्तरं राजा पूर्वभवं पप्रच्छ-भगवन् ! केन कर्मणा मया विडम्बना प्राप्ता ?' सूरिरूचेऽस्मिन्नेव भरतक्षत्रे । धनधान्यसमृद्धिमत् क्षितिप्रतिष्ठितं नाम पुरमस्ति । तत्र सोमचन्द्राभिधानः कुलपुत्रकः आसीत् । तद्भार्या श्रीदेवी । तत्रैव नगरे जिनदेवाभिधानः श्रावकोऽभूत् । तस्य तेन समं मैत्री जाता । अथ जिनदेवो देशान्तरं गन्तुकामो निजमित्रमभाषत-'धनोपार्जनार्थं देशान्तरे गमिष्यामि, मामकीनमिदं धनं त्वत्समीपे स्थाप्यं, यथाविधि सप्तक्षेत्र्यां वाप्यं, तस्य पुण्यस्य तव षष्टांशो भवतादिति । तस्मिन् देशान्तरे गते सोमचन्द्रः शुद्धचेतसा तद्रव्यं यथास्थानं व्ययति स्म । तस्य भार्याप्यऽनुमोदनात् धर्मं भेजे । तस्मिन्नैव पुरे तस्याः सखी भद्रानाम्नी देवदत्तस्य गेहिनी अभूत् । सः देवदत्तः केनचित् कर्मदोषेण कुष्ठी जज्ञे । ततो तत्प्रिया भद्रा विषसाद । तया अनेधुः सख्याः पुरस्तत्स्वरूपं निवेदितम् । तया हासपरया सा ससम्भ्रमं भणिता-'हले ! त्वत्सङ्गदोषेण पतिः कुष्ठी जज्ञे, त्वं ममापि दृष्टिं माऽगाः दूरतोऽपसर ।' तेन वचसा सा दीनमुखी जाता । सः सोमचन्द्रः स्वभार्यया श्रीदेव्या साद्धं श्राद्धधर्ममपालयत् । तौ दम्पती मृत्वा सौधर्मे त्रिदिवौ समजायताम् । पञ्चपल्योपमस्थित्वा, सौधर्माच्च्युत्वा त्वं श्रेष्ठीनन्दनोऽभूत्, श्रीदेवीजीवः त्रैलोक्यसुन्दरी । त्वया परद्रव्येण यत्पुण्यमुपार्जितं तदेषा भाटकेन परिणीता । अनया पुरा हास्येनोक्तं, तेन कर्मणा कलङ्कं समभूत् । यतः-हसन्तो हेलया कम्मं, रोयंतो वि न छूट्टइ ।
हसन्ती धारए गब्भं, रोयंती परिमुच्चइ ।।१।।
Jovaa
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org